Loading...
ऋग्वेद मण्डल - 4 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 51/ मन्त्र 11
    ऋषिः - वामदेवो गौतमः देवता - उषाः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः। व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥११॥

    स्वर सहित पद पाठ

    तत् । वः॒ । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । उप॑ । ब्रु॒वे॒ । उ॒ष॒सः॒ । य॒ज्ञऽके॑तुः । व॒यम् । स्या॒म॒ । य॒शसः॑ । जने॑षु । तत् । द्यौः । च॒ । ध॒त्ताम् । पृ॒थि॒वी । च॒ । दे॒वी ॥


    स्वर रहित मन्त्र

    तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः। वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥११॥

    स्वर रहित पद पाठ

    तत्। वः। दिवः। दुहितरः। विऽभातीः। उप। ब्रुवे। उषसः। यज्ञऽकेतुः। वयम्। स्याम। यशसः। जनेषु। तत्। द्यौः। च। धत्ताम्। पृथिवी। च। देवी ॥११॥

    ऋग्वेद - मण्डल » 4; सूक्त » 51; मन्त्र » 11
    अष्टक » 3; अध्याय » 8; वर्ग » 2; मन्त्र » 6

    भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे परस्परांना उपदेश करून सत्याचे ग्रहण करवितात ते सूर्याप्रमाणे प्रकाशक व भूमीप्रमाणे प्रजेला धारण करणारे असतात. ॥ ११ ॥

    इस भाष्य को एडिट करें
    Top