ऋग्वेद - मण्डल 7/ सूक्त 91/ मन्त्र 2
उ॒शन्ता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः । इन्द्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्य॑म् ॥
स्वर सहित पद पाठउशन्ता॑ । दू॒ता । न । दभा॑य । गो॒पा । मा॒सः । च॒ । पा॒थः । श॒रदः॑ । च॒ । पू॒र्वीः । इन्द्र॑वायू॒ इति॑ । सु॒ऽस्तु॒तिः । वा॒म् । इ॒या॒ना । मा॒र्डी॒कम् । ई॒ट्टे॒ । सु॒वि॒तम् । च॒ । नव्य॑म् ॥
स्वर रहित मन्त्र
उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः । इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम् ॥
स्वर रहित पद पाठउशन्ता । दूता । न । दभाय । गोपा । मासः । च । पाथः । शरदः । च । पूर्वीः । इन्द्रवायू इति । सुऽस्तुतिः । वाम् । इयाना । मार्डीकम् । ईट्टे । सुवितम् । च । नव्यम् ॥ ७.९१.२
ऋग्वेद - मण्डल » 7; सूक्त » 91; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 13; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 13; मन्त्र » 2
भावार्थ - परमात्मा उपदेश करतो, की जे लोक कर्मयोगी व ज्ञानयोगी विद्वानांना आपला नेता बनवितात त्यांना सुख मिळते व धन इत्यादी नवनवीन वस्तूंची सदैव प्राप्ती होते. ॥२॥
इस भाष्य को एडिट करें