Loading...
ऋग्वेद मण्डल - 8 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 36/ मन्त्र 6
    ऋषिः - श्यावाश्वः देवता - इन्द्र: छन्दः - शक्वरी स्वरः - धैवतः

    अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥

    स्वर सहित पद पाठ

    अत्री॑णाम् । स्तोम॑म् । अ॒द्रि॒ऽवः॒ । म॒हः । कृ॒धि॒ । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥


    स्वर रहित मन्त्र

    अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वा: सेहानः पृतना उरु ज्रय: समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥

    स्वर रहित पद पाठ

    अत्रीणाम् । स्तोमम् । अद्रिऽवः । महः । कृधि । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥ ८.३६.६

    ऋग्वेद - मण्डल » 8; सूक्त » 36; मन्त्र » 6
    अष्टक » 6; अध्याय » 3; वर्ग » 18; मन्त्र » 6

    भावार्थ - माणूस आत्मिक, वाचिक व शारीरिक - तीन प्रकारच्या दोषांचा त्याग करूनच परमेश्वराच्या गुणांचा आदर करू शकतो व तोच त्याच्या गुणांचे कीर्तन करून ते ग्रहण करण्याचा प्रयत्न करतो. अशा प्रशंसकाबाबत असे म्हटले गेले आहे की, परमेश्वराने त्याच्या स्तुती वचनांना सत्कारणीय व ग्राह्य मानलेले आहे. जणू परमेश्वराने त्याची स्तुती स्वीकारलेली आहे. ॥६॥

    इस भाष्य को एडिट करें
    Top