अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 34
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
दिवं॑ च॒ रोह॑ पृथि॒वीं च॑ रोह रा॒ष्ट्रं च॒ रोह॒ द्रवि॑णं च रोह। प्र॒जां च॒ रोहा॒मृतं॑ च रोह॒ रोहि॑तेन त॒न्वं सं स्पृ॑शस्व ॥
स्वर सहित पद पाठदिव॑म् । च॒ । रो॒ह॒ । पृ॒थि॒वीम् । च॒ । रो॒ह॒ । रा॒ष्ट्रम् । च॒ । रोह॑ । द्रवि॑णम् । च॒ । रो॒ह॒ । प्र॒ऽजाम् । च॒ । रोह॑ । अ॒मृत॑म् । च॒ । रो॒ह॒ । रोहि॑तेन । त॒न्व᳡म् । सम् । स्पृ॒श॒स्व॒ ॥१.३४॥
स्वर रहित मन्त्र
दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह। प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृशस्व ॥
स्वर रहित पद पाठदिवम् । च । रोह । पृथिवीम् । च । रोह । राष्ट्रम् । च । रोह । द्रविणम् । च । रोह । प्रऽजाम् । च । रोह । अमृतम् । च । रोह । रोहितेन । तन्वम् । सम् । स्पृशस्व ॥१.३४॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 34
Translation -
May you ascend to heaven; and may you ascend on the earth, and may you ascend to the kingship; and may you ascend to wealth; and may you ascend to the posterity; and may you ascend to the immortality; may you touch the body with the ascendance.