अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 19
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - जगतीगर्भा त्रिष्टुप्
सूक्तम् - प्रतिसरमणि सूक्त
ऐ॑न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒विध्य॑न्ति॒ सर्वे॑। तन्मे॑ त॒न्वं त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथासा॑नि ॥
स्वर सहित पद पाठऐ॒न्द्रा॒ग्नम् । वर्म॑ । ब॒हु॒लम् । यत् । उ॒ग्रम् । विश्वे॑ । दे॒वा: । न । अ॒ति॒ऽविध्य॑न्ति । सर्वे॑ । तत्। मे॒ । त॒न्व᳡म् । त्रा॒य॒ता॒म् । स॒र्वत॑: । बृ॒हत् । आयु॑ष्मान् । ज॒रतऽअ॑ष्टि: । यथा॑ । असा॑नि ॥५.१९॥
स्वर रहित मन्त्र
ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे। तन्मे तन्वं त्रायतां सर्वतो बृहदायुष्माञ्जरदष्टिर्यथासानि ॥
स्वर रहित पद पाठऐन्द्राग्नम् । वर्म । बहुलम् । यत् । उग्रम् । विश्वे । देवा: । न । अतिऽविध्यन्ति । सर्वे । तत्। मे । तन्वम् । त्रायताम् । सर्वत: । बृहत् । आयुष्मान् । जरतऽअष्टि: । यथा । असानि ॥५.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 19
Translation -
This blessing of the resplendent Lord and the adorable Lord is a vast and formidable shield, which none of the bounties of Nature can pierce through. May that greatshield protect my person from all sides, so that I may have a long life attaining full old age.