अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 27
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
उ॒त ह॑न्ति पूर्वा॒सिनं॑ प्रत्या॒दायाप॑र॒ इष्वा॑। उ॒त पूर्व॑स्य निघ्न॒तो नि ह॒न्त्यप॑रः॒ प्रति॑ ॥
स्वर सहित पद पाठउ॒त । ह॒न्ति॒ । पू॒र्व॒ऽआ॒सिन॑म् । प्र॒ति॒ऽआ॒दाय॑ । अप॑र: । इष्वा॑ । उ॒त । पूर्व॑स्य । नि॒ऽघ्न॒त: । नि । ह॒न्ति॒ । अप॑र: । प्रति॑ ॥१.२७॥
स्वर रहित मन्त्र
उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा। उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥
स्वर रहित पद पाठउत । हन्ति । पूर्वऽआसिनम् । प्रतिऽआदाय । अपर: । इष्वा । उत । पूर्वस्य । निऽघ्नत: । नि । हन्ति । अपर: । प्रति ॥१.२७॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 27
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(उत) एव। (हन्ति) (पूर्वासिनम्) पूर्व+असु क्षेपणे−णिनि। पूर्वशस्त्रक्षेप्तारम् (प्रत्यादाय) प्रतिकूलं गृहीत्वा (अपरः) नास्ति परः श्रेष्ठो यस्मात् सः। अनुत्तमः। अतिसावधानः (इष्वा) बाणेन (उत) (पूर्वस्य) अग्रवर्तिनः (निघ्नतः) नितरां हननं कुर्वतः (नि) निरन्तरम् (हन्ति) (अपरः) अतिसावधानः (प्रति) प्रतिकूलत्वेन ॥
इस भाष्य को एडिट करें