अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 8
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्। चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥
स्वर सहित पद पाठम॒स्तिष्क॑म् । अ॒स्य॒ । य॒त॒म: । ल॒लाट॑म् । क॒काटि॑काम् । प्र॒थ॒म: । य: । क॒पाल॑म् । चि॒त्वा । चित्य॑म् । हन्वो॑: । पुरु॑षस्य । दिव॑म् । रु॒रो॒ह॒ । क॒त॒म: । स: । दे॒व: ॥२.८॥
स्वर रहित मन्त्र
मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम्। चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥
स्वर रहित पद पाठमस्तिष्कम् । अस्य । यतम: । ललाटम् । ककाटिकाम् । प्रथम: । य: । कपालम् । चित्वा । चित्यम् । हन्वो: । पुरुषस्य । दिवम् । रुरोह । कतम: । स: । देव: ॥२.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(मस्तिष्कम्) अ० २।३३।१। मस्तकस्नेहम् (अस्य) मनुष्यस्य (यतमः) बहूनां मध्ये यः (ललाटम्) अ० ९।७।१। भ्रुवोरूर्ध्वभागम्। भालम् (ककाटिकाम्) क+कट गतौ-घञ्, स्वार्थे क प्रत्ययः, टाप्, अकारस्य इत्वम्। के शिरसि काटो गतिर्यस्याः ककाटिका ताम्। शिरःपश्चाद्भागम् (प्रथमः) (यः) यम्−ड। नियन्ता (कपालम्) अ० ९।८।२२। शिरोऽस्थि (चित्वा) चयनं कृत्वा (चित्यम्) चिञ् चयने-क्यप्, तुक्। चयनम् (हन्वोः) म० ७। (पुरुषस्य) (दिवम्) प्रकाशम् (रुरोह) आरूढवान् (कतमः) बहूनां मध्ये कः (सः) (देवः) स्तुत्यः ॥
इस भाष्य को एडिट करें