अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 48
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - पुरोऽनुष्टुप्त्रिष्टुप्
सूक्तम् - भूमि सूक्त
म॒ल्वं बिभ्र॑ती गुरु॒भृद्भ॑द्रपा॒पस्य॑ नि॒धनं॑ तिति॒क्षुः। व॑रा॒हेण॑ पृथि॒वी सं॑विदा॒ना सू॑क॒राय॒ वि जि॑हीते मृ॒गाय॑ ॥
स्वर सहित पद पाठम॒ल्वम् । बिभ्र॑ती । गु॒रु॒ऽभृत् । भ॒द्र॒ऽपा॒पस्य॑ । नि॒ऽधन॑म् । ति॒ति॒क्षु: । व॒रा॒हेण॑ । पृ॒थि॒वी । स॒म्ऽवि॒दा॒ना । सू॒क॒राय॑ । वि । जि॒ही॒ते॒ । मृ॒गाय॑ ॥१.४८॥
स्वर रहित मन्त्र
मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः। वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥
स्वर रहित पद पाठमल्वम् । बिभ्रती । गुरुऽभृत् । भद्रऽपापस्य । निऽधनम् । तितिक्षु: । वराहेण । पृथिवी । सम्ऽविदाना । सूकराय । वि । जिहीते । मृगाय ॥१.४८॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 48
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४८−(मल्वम्) कॄगॄशॄदॄभ्यो वः। उ० १।१५५। मल धारणे−व। धारणसामर्थ्यम् (बिभ्रती) धारयन्ती (गुरुभृत्) कृग्रोरुच्च। उ० १।२४। गॄ विज्ञापने−कु, उत्त्वं च+डुभृञ् धारणपोषणयोः−क्विप्। गुरुत्वस्य धारकं सामर्थ्यम् (भद्रपापस्य) साध्वसाधुपुरुषस्य (निधनम्) कुलम्। समूहम् (तितिक्षुः) तिज क्षमायाम्−स्वार्थे सन्−उ प्रत्ययः। सहमाना (वराहेण) अ० ८।७।२३। मेघेन−निरु० ५।४। (पृथिवी) (संविदाना) अ० २।२८।२। संपूर्वाद् वेत्तेरकर्मकाद् आत्मनेपदम्, लटः शानच्। संगच्छमाना (सूकराय) ॠदोरप्। पा० ३।३।५७। सु+कॄ विदारणे−अप्। उपसर्गस्य दीर्घः। सुष्ठु सुखदाः कराः किरणा यस्य तस्मै (वि) विविधम् (जिहीते) ओहाङ् गतौ। गम्यते। प्राप्यते (मृगाय) मृग अन्वेषणे गतौ च−क। मृगो मार्ष्टेर्गतिकर्मणः−निरु० १३।३। अन्वेषकाय गतिशीलाय वा सूर्याय ॥
इस भाष्य को एडिट करें