Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 29
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
या दु॒र्हार्दो॑युव॒तयो॒ याश्चे॒ह जर॑ती॒रपि॑। वर्चो॒ न्वस्यै सं द॒त्ताथास्तं॑ वि॒परे॑तन॥
स्वर सहित पद पाठया: । दु॒:ऽहार्द॑: । यु॒व॒तय॑: । या: । च॒ । इ॒ह । ज॒र॒ती॒: । अपि॑ । वर्च॑: । नु । अ॒स्यै । सम् । द॒त्त॒ । अथ॑ । अस्त॑म् । वि॒ऽपरे॑तन ॥२.२९॥
स्वर रहित मन्त्र
या दुर्हार्दोयुवतयो याश्चेह जरतीरपि। वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन॥
स्वर रहित पद पाठया: । दु:ऽहार्द: । युवतय: । या: । च । इह । जरती: । अपि । वर्च: । नु । अस्यै । सम् । दत्त । अथ । अस्तम् । विऽपरेतन ॥२.२९॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 29
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २९−(याः) स्त्रियः (दुर्हार्दः) अ० २।७।५। हार्दम् आनुकूल्यंकरोति हार्दयतीति, हार्दयतेः-क्विपि णिलोपे रूपम्। दुष्टहृदयाः। क्रूरचित्ताः (युवतयः) तरुणस्त्रियः (याः) (च) (इह) गृहे (जरतीः) हे वृद्धस्त्रियः (अपि) (वर्चः) स्वतेजः (नु) शीघ्रम् (अस्यै) वध्वै (सम्) सम्यक् (दत्त) प्रयच्छत (अथ)अपि च (अस्तम्) स्वगृहम् (विपरेतन) विपरां विविधं दूरे गच्छत ॥
इस भाष्य को एडिट करें