अथर्ववेद - काण्ड 19/ सूक्त 36/ मन्त्र 6
श॒तम॒हं दु॒र्णाम्नी॑नां गन्धर्वाप्स॒रसां॑ श॒तम्। श॒तं श॒श्व॒न्वती॑नां श॒तवा॑रेण वारये ॥
स्वर सहित पद पाठश॒तम्। अ॒हम्। दुः॒ऽनाम्नी॑नाम्। ग॒न्ध॒र्व॒ऽअ॒प्स॒र॒सा॑म्। श॒तम्। श॒तम्। श॒श्व॒न्ऽवती॑नाम्। श॒तऽवा॑रेण। वा॒र॒ये॒ ॥३६.६॥
स्वर रहित मन्त्र
शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम्। शतं शश्वन्वतीनां शतवारेण वारये ॥
स्वर रहित पद पाठशतम्। अहम्। दुःऽनाम्नीनाम्। गन्धर्वऽअप्सरसाम्। शतम्। शतम्। शश्वन्ऽवतीनाम्। शतऽवारेण। वारये ॥३६.६॥
अथर्ववेद - काण्ड » 19; सूक्त » 36; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(शतम्) अनेकान् (अहम्) वैद्यः (दुर्णाम्नीनाम्) अन उपधालोपिनोऽन्यतरस्याम्। पा०४।१।२८। इति ङीप्। अर्शआदिरोगपीडानाम् (गन्धर्वाप्सरसाम्) अ०८।८।१५। कॄगॄशॄदॄभ्यो वः। उ०१।१५५। गो+धृञ् धारणे-व प्रत्ययः, गो शब्दस्य गमादेशः+सरतेरप्पूर्वादसिः। उ०४।२३७। अप+सृ गतौ-असि। गवि पृथिव्यां ध्रियन्ते ते गन्धर्वाः। अप्सु आकाशे सरन्ति गच्छन्तीति अप्सरसः। तादृशानां रोगाणाम् (शतम्) बहून् (शतम्) (शश्वन्वतीनाम्) स्नामदिपद्यर्ति०। उ०४।११३। शश प्लुतगतौ-वनिप्। शश्वन्-मतुप्। मादुपधायाश्च०। पा०८।२।९। इति वत्वम्। अनो नुट्। पा०८।२।१६। इति नुट्, ङीप्। प्लुतगतियुक्तानां पीडानाम् (शतवारेण) म०१। औषधविशेषेण (वारये) निवारयामि ॥
इस भाष्य को एडिट करें