Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 100/ मन्त्र 2
वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि। वा॑वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥
स्वर सहित पद पाठवा: । न । त्वा॒ । य॒व्याभि॑: । वर्ध॑न्ति । शू॒र॒ । ब्रह्मा॑णि । व॒वृध्वांस॑म् । चि॒त् । आ॒द्रि॒ऽव॒: ॥ दि॒वेऽदि॑वे ॥१००.॥
स्वर रहित मन्त्र
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि। वावृध्वांसं चिदद्रिवो दिवेदिवे ॥
स्वर रहित पद पाठवा: । न । त्वा । यव्याभि: । वर्धन्ति । शूर । ब्रह्माणि । ववृध्वांसम् । चित् । आद्रिऽव: ॥ दिवेऽदिवे ॥१००.॥
अथर्ववेद - काण्ड » 20; सूक्त » 100; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(वाः) जलम् (न) यथा (त्वा) त्वाम् (यव्याभिः) खलयवमाषतिलवृषब्रह्मणश्च। पा० ।१।७। यव-यत्। यवेभ्यो हिताभिर्जलनालीभिः। नदीभिः। यव्याः नदीनाम-निघ० १।१३। (वर्धन्ति) वर्धयन्ति। उन्नयन्ति (शूर) (ब्रह्माणि) वेदज्ञानानि (वावृध्वांसम्) वर्धतेः क्वसु। वर्धमानम् (चित्) अपि (अद्रिवः) वज्रिन् (दिवे दिवे) दिने दिने ॥
इस भाष्य को एडिट करें