Loading...
अथर्ववेद > काण्ड 20 > सूक्त 105

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 105/ मन्त्र 3
    सूक्त - नृमेधः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-१०५

    इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम्। आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥

    स्वर सहित पद पाठ

    इ॒त: । ऊ॒ती । व॒: । अ॒जर॑म् । प्र॒ऽहे॒तार॑म् । अप्र॑ऽहितम् ॥ आ॒शुम् । जेता॑रम् । हेता॑रम् । र॒थिऽत॑मम् । अतू॑र्तम् । तु॒ग्र्य॒ऽवृध॑म् ॥१०५.३॥


    स्वर रहित मन्त्र

    इत ऊती वो अजरं प्रहेतारमप्रहितम्। आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥

    स्वर रहित पद पाठ

    इत: । ऊती । व: । अजरम् । प्रऽहेतारम् । अप्रऽहितम् ॥ आशुम् । जेतारम् । हेतारम् । रथिऽतमम् । अतूर्तम् । तुग्र्यऽवृधम् ॥१०५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 105; मन्त्र » 3

    टिप्पणीः - मन्त्र ३ सामवेद में भी है-पू० ३।१०।१ ॥ ३−(इतः) गच्छतः प्राप्नुतः। ते क्षोणी-म० २ (ऊती) ऊत्यै रक्षायै (वः) युष्माकम् (अजरम्) जरारहितम् (प्रहेतारम्) हि गतौ-तृन्। प्रकर्षेण गमयितारम् (अप्रहितम्) केनाप्यचालितम् (आशुम्) वेगवन्तम् (जेतारम्) जयकर्तारम् (हेतारम्) हि वृद्धौ-तृन्। वर्धयितारम् (रथीतमम्) रमणीयपदार्थानां स्वामितमम् (अतूर्तम्) तुरी हिंसने-क्त। अहिंसितम् (तुग्र्यावृधम्) स्फायितञ्चिवञ्चि०। उ० २।१३। तुज तुजि हिंसाबलाधाननिकेतनेषु रक्, तुग्र-यत्। निवासाय हितस्य वर्धकम् ॥

    इस भाष्य को एडिट करें
    Top