अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 3
यद॑ल्पिका॒स्वल्पिका॒ कर्क॑न्धू॒केव॒ पद्य॑ते। वा॑सन्ति॒कमि॑व॒ तेज॑नं॒ यन्त्य॒वाता॑य॒ वित्प॑ति ॥
स्वर सहित पद पाठयत् । अल्पि॑का॒सु । अ॑ल्पिका॒ । कर्क॑ऽधू॒के । अव॒ऽसद्यते ॥ वास॑न्ति॒कम्ऽइ॑व॒ । तेज॑न॒म् । यन्ति॒ । अ॒वाता॑य॒ । वित्प॑ति ॥१३६.३॥
स्वर रहित मन्त्र
यदल्पिकास्वल्पिका कर्कन्धूकेव पद्यते। वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥
स्वर रहित पद पाठयत् । अल्पिकासु । अल्पिका । कर्कऽधूके । अवऽसद्यते ॥ वासन्तिकम्ऽइव । तेजनम् । यन्ति । अवाताय । वित्पति ॥१३६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यत्) यदा (अल्पिकासु) क्षुद्रासु प्रजासु (अल्पिका) क्षुद्रा प्रजा (कर्कन्धूके) कृदाधा०। उ० ३।४०। डुकृञ् करणे−कप्रत्ययः, ककारस्य इत्संज्ञा न। सृवृभू०। उ० ३।४१। धूञ् कम्पने−कक्। कर्कस्य अग्नेः धूके कम्पने (अवपद्यते) अवसीदति। दुःखं प्राप्नोति (वासन्तिकम्) वसन्ताच्च। पा० ४।३।२०। वसन्त−ठञ्। वसन्ते भवं तेजनम् (इव) यथा (तेजनम्) उद्दीपनम्। उत्तेजनाम्। प्रेरणाम् (यन्ति) प्राप्नुवन्ति ते शूराः (अवाताय) वात गतौ सेवायां सुखीकरणे च−घञ्। वातं सुखम् अवातं दुःखम्। तत् नाशयितुम् (वित्पति) विद ज्ञाने−क्विप्+पत्लृ गतौ−क्विप्। विदां विदुषां पति अधःपतने ॥
इस भाष्य को एडिट करें