Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 4
श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः। गि॒रिर्न भु॒ज्मा म॒घव॑त्सु॑ पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥
स्वर सहित पद पाठश॒तऽअ॑नीका: । हे॒तय॑: । अ॒स्य॒ । दु॒स्तरा॑ । इन्द्र॑स्य । स॒म्ऽइष॑: । म॒ही: ॥ गि॒रि: । न । भु॒ज्मा । म॒घव॑त्ऽसु । पि॒न्व॒ते॒ । यत् । ई॒म् । सु॒ता: । अम॑न्दिषु: ॥५१.४॥
स्वर रहित मन्त्र
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः। गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥
स्वर रहित पद पाठशतऽअनीका: । हेतय: । अस्य । दुस्तरा । इन्द्रस्य । सम्ऽइष: । मही: ॥ गिरि: । न । भुज्मा । मघवत्ऽसु । पिन्वते । यत् । ईम् । सुता: । अमन्दिषु: ॥५१.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(शतानीकाः) शतेषु सैन्येषु वर्तमाना यथा (हेतयः) बाणाः (अस्य) (दुष्टराः) दुःखेन तरणीयाः। अजेयाः (इन्द्रस्य) परमेश्वरस्य (समिषः) सम्यग् इच्छाः (महीः) महत्यः (गिरिः) मेघः-निघ० १।१०। (न) यथा (भुज्मा) इषियुधीन्धि०। उ० १।१४। भुज पालनाभ्यवहारयोः-मक्। भुज्मानि। भोग्यवस्तूनि (मघवत्सु) मघ मघी गतौ आरम्भे च-अच्। गतिमत्सु। उद्योगिषु (पिन्वते) सिञ्चति (यत्) यदा (ईम्) ई गतिकान्त्यादिषु-क्विप्। प्राप्तव्यं परमेश्वरम् (सुताः) पुत्र इवोपासकाः (अमन्दिषुः) प्रसन्नं कृतवन्तः ॥
इस भाष्य को एडिट करें