Loading...
अथर्ववेद > काण्ड 4 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - वरुणः छन्दः - त्रिपान्महाबृहती सूक्तम् - सत्यानृतसमीक्षक सूक्त

    यः स॑मा॒म्यो॒ वरु॑णो॒ यो व्या॒म्यो॒ यः सं॑दे॒श्यो॒ वरु॑णो॒ यो वि॑दे॒श्यः। यो दै॒वो वरु॑णो॒ यश्च॒ मानु॑षः ॥

    स्वर सहित पद पाठ

    य: । स॒म्ऽआ॒भ्य᳡: । वरु॑ण: । य: । वि॒ऽआ॒भ्य᳡: । य: । स॒म्ऽदे॒श्य᳡: । वरु॑ण: । य: । वि॒ऽदे॒श्य᳡: । य: । दै॒व: । वरु॑ण: । य: । च॒ । मानु॑ष: ॥१६.८॥


    स्वर रहित मन्त्र

    यः समाम्यो वरुणो यो व्याम्यो यः संदेश्यो वरुणो यो विदेश्यः। यो दैवो वरुणो यश्च मानुषः ॥

    स्वर रहित पद पाठ

    य: । सम्ऽआभ्य: । वरुण: । य: । विऽआभ्य: । य: । सम्ऽदेश्य: । वरुण: । य: । विऽदेश्य: । य: । दैव: । वरुण: । य: । च । मानुष: ॥१६.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 8

    टिप्पणीः - ८−(यः) या गतौ-ड। व्यापकः (समाम्यः) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति सम्+अम गतौ−भजने च-ण्यत्। सम्यग् आम्यो भजनीयः सेवनीयः (वरुणः) वरणीयः सर्वश्रेष्ठः (यः) यम-ड। नियन्ता (व्याम्यः) वि+अम पीडने-भावे ण्यत्। विगतम् आम्यं पीडनं यस्मात् सः। पीडारहितः। आनन्दस्वरूपः (यः) यती यत्ने-ड। यत्नशीलः (संदेश्यः) दिगादिभ्यो यत्। पा० ४।३।५४। इति देश-यत्। समानदेशे भवः (यः) यु मिश्रणामिश्रणयोः-ड। यविता संयोक्ता वियोक्ता च (विदेश्यः) पूर्ववद्-यत्। विदेशे भवः (यः) यज देवपूजने-ड। पूजनीयः (दैवः) देवाद् यञञौ। वा० पा० ४।१।८५। इति देव-अञ्। देवेषु दिव्यगुणवत्सु भवः (यः) यज दाने-ड। दाता (च) समुच्चये (मानुषः) अ० ४।१४।५। मनुष्येषु मननशीलेषु भवः ॥

    इस भाष्य को एडिट करें
    Top