Loading...
अथर्ववेद > काण्ड 4 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 3
    सूक्त - मृगारः देवता - प्रचेता अग्निः छन्दः - पुरस्ताज्ज्योतिष्मती त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    याम॑न्याम॒न्नुप॑युक्तं॒ वहि॑ष्ठं॒ कर्म॑ङ्कर्म॒न्नाभ॑गम॒ग्निमी॑डे। र॑क्षो॒हणं॑ यज्ञ॒वृधं॑ घृ॒ताहु॑तं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    याम॑न्ऽयामन् । उप॑ऽयुक्तम् । वहि॑ष्ठम् । कर्म॑न्ऽकर्मन् । आऽभ॑गम् । अ॒ग्निम् । ई॒डे॒ । र॒क्ष॒:ऽहन॑म् । य॒ज्ञ॒ऽवृध॑म् । घृ॒तऽआ॑हुतम् । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.३॥


    स्वर रहित मन्त्र

    यामन्यामन्नुपयुक्तं वहिष्ठं कर्मङ्कर्मन्नाभगमग्निमीडे। रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    यामन्ऽयामन् । उपऽयुक्तम् । वहिष्ठम् । कर्मन्ऽकर्मन् । आऽभगम् । अग्निम् । ईडे । रक्ष:ऽहनम् । यज्ञऽवृधम् । घृतऽआहुतम् । स: । न: । मुञ्चतु । अंहस: ॥२३.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 3

    टिप्पणीः - ३−(यामन् यामन्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति या प्रापणे-मनिन्। सप्तम्या लुक्। यामनि यामनि। सर्वस्यां गतौ (उपयुक्तम्) उपयोगीभूतम् (वहिष्ठम्) तुश्छन्दसि। पा० ५।३।५९। इति वोढृ-इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। इति तृलोपः। वोढृतमम्। अतिशयेन प्रापकम्। बलिष्ठम् (कर्मन् कर्मन्) डुकृञ् करणे-मनिन्। सप्तम्या लुक्। सर्वस्मिन् कर्मणि (आभगम्) आभक्तव्यम्। आसेव्यम् (अग्निम्) सर्वज्ञं परमात्मानम् (ईडे) ईड स्तुतौ। अग्निमीडेऽग्निं याचामीडिरध्येषणाकर्मा पूजाकर्मा वा-निरु० ७।१५। स्तौमि (रक्षोहणम्) रक्षस्+हन् हिंसागत्योः-क्विप्। रक्षसां हन्तारम् (यज्ञवृधम्) यज्ञस्य पूजनीयकर्मणो वर्धयितारम् (घृताहुतम्) घृत+आङ्−हु दाने-क्विप्, तुक् च। घृतस्य प्रकाशस्य सम्यग् दातारम्। अन्यत् पूर्ववत् अ० १ ॥

    इस भाष्य को एडिट करें
    Top