Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 1/ मन्त्र 3
सूक्त - अथर्वा
देवता - सविता
छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्
सूक्तम् - अमृतप्रदाता सूक्त
स घा॑ नो दे॒वः स॑वि॒ता सा॑विषद॒मृता॑नि॒ भूरि॑। उ॒भे सु॑ष्टु॒ती सु॒गात॑वे ॥
स्वर सहित पद पाठस: । घ॒ । न॒: । दे॒व: । स॒वि॒ता । सा॒वि॒ष॒त् । अ॒मृता॑नि । भूरि॑ । उ॒भे इति॑ । सु॒स्तु॒ती इति॑ सु॒ऽस्तु॒ती । सु॒ऽगात॑वे ॥१.३॥
स्वर रहित मन्त्र
स घा नो देवः सविता साविषदमृतानि भूरि। उभे सुष्टुती सुगातवे ॥
स्वर रहित पद पाठस: । घ । न: । देव: । सविता । साविषत् । अमृतानि । भूरि । उभे इति । सुस्तुती इति सुऽस्तुती । सुऽगातवे ॥१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 1; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सः) प्रसिद्धः (घ) सांहितिको दीर्घः। एव (नः) अस्मभ्यम् (देवः) प्रकाशमानः (सविता) सर्वप्रेरयिता (साविषत्) षू प्रेरणे, लेटि अडागमः। सिब्बहुलं णिद् वक्तव्यः। वा० पा० ३।१।३४। इति वृद्धौ सत्यामावादेशः। प्रेरयेत् (अमृतानि) अ० ४।८।३। अक्षयसुखानि (भूरि) भूरीणि। बहूनि (उभे) प्रातःसायंकालीने, तदुपलक्षिते सर्वकाले−इत्यर्थः (सुष्टुती) शोभने स्तुती (सुगातवे) गायतेस्तुमर्थे तवेप्रत्ययः। सुष्ठु गातुम् ॥
इस भाष्य को एडिट करें