Loading...
अथर्ववेद > काण्ड 6 > सूक्त 109

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 109/ मन्त्र 2
    सूक्त - अथर्वा देवता - भैषज्यम् छन्दः - अनुष्टुप् सूक्तम् - पिप्पलीभैषज्य सूक्त

    पि॑प्प॒ल्यः सम॑वदन्ताय॒तीर्जन॑ना॒दधि॑। यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥

    स्वर सहित पद पाठ

    पि॒प्प॒ल्य᳡: । सम् । अ॒व॒द॒न्त॒। आ॒ऽय॒ती: । जन॑नात् । अधि॑ । यम् । जी॒वम् । अ॒श्नवा॑महै । न । स: । रि॒ष्या॒ति॒ । पुरु॑ष: ॥१०९.२॥


    स्वर रहित मन्त्र

    पिप्पल्यः समवदन्तायतीर्जननादधि। यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥

    स्वर रहित पद पाठ

    पिप्पल्य: । सम् । अवदन्त। आऽयती: । जननात् । अधि । यम् । जीवम् । अश्नवामहै । न । स: । रिष्याति । पुरुष: ॥१०९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 109; मन्त्र » 2

    टिप्पणीः - २−(पिप्पल्यः) म० १। (ओषधयः) (सम् अवदन्त) व्यक्तवाचां समुच्चारणे। पा० १।३।४८। इत्यात्मनेपदम्। परस्परं सम्वादं कृतवन्त्यः (आयतीः) आयत्यः। आगच्छन्त्यः (जननात्) जन्मनः प्रभृति (अधि) अधिकम् (यम्) (जीवम्) प्राणिनम् (अश्नवामहै) वयं प्राप्नवाम (न) निषेधे (सः) (रिष्याति) रिष हिंसायाम्−लेट्। विनश्येत् (पुरुष) मनुष्यः ॥

    इस भाष्य को एडिट करें
    Top