अथर्ववेद - काण्ड 6/ सूक्त 123/ मन्त्र 4
सूक्त - भृगु
देवता - विश्वे देवाः
छन्दः - एकावसाना द्विपदा प्राजापत्या भुरिगनुष्टुप्
सूक्तम् - सौमनस्य सूक्त
स प॑चामि॒ स द॑दामि। स य॑जे॒ स द॒त्तान्मा यू॑षम् ॥
स्वर सहित पद पाठस: । प॒चा॒मि॒ । स: । द॒दा॒मि॒ । स: । य॒जे॒ । स: । द॒त्तात् । मा । यू॒ष॒म् ॥१२३.४॥
स्वर रहित मन्त्र
स पचामि स ददामि। स यजे स दत्तान्मा यूषम् ॥
स्वर रहित पद पाठस: । पचामि । स: । ददामि । स: । यजे । स: । दत्तात् । मा । यूषम् ॥१२३.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 123; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(सः)−म० ३। क्लेशनाशकः (पचामि) पाकेन संस्करोमि (सः) प्रसिद्धः (ददामि) दानानि करोमि (यजे) देवान् पूजयामि (दत्तात्) सुपात्रेभ्यो दानात् (मा यूषम्) यु मिश्रणामिश्रणयोः−माङि लुङि च्लेः सिच्, छान्दसो दीर्घः। पृथक्कृतो मा भूवम् ॥
इस भाष्य को एडिट करें