Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 142/ मन्त्र 3
सूक्त - विश्वामित्र
देवता - वायुः
छन्दः - अनुष्टुप्
सूक्तम् - अन्नसमृद्धि सूक्त
अक्षि॑तास्त उप॒सदोऽक्षि॑ताः सन्तु रा॒शयः॑। पृ॒णन्तो॒ अक्षि॑ताः सन्त्व॒त्तारः॑ स॒न्त्वक्षि॑ताः ॥
स्वर सहित पद पाठअक्षि॑ता: । ते॒ ।उ॒प॒ऽसद॑: । अक्षि॑ता: । स॒न्तु॒ । रा॒शय॑: । पृ॒णन्त॑: । अक्षि॑ता: । स॒न्तु॒ । अ॒त्तार॑: । स॒न्तु॒ । अक्षि॑ता: ॥१४२.३॥
स्वर रहित मन्त्र
अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः। पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥
स्वर रहित पद पाठअक्षिता: । ते ।उपऽसद: । अक्षिता: । सन्तु । राशय: । पृणन्त: । अक्षिता: । सन्तु । अत्तार: । सन्तु । अक्षिता: ॥१४२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 142; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अक्षिताः) अक्षीणाः (ते) तव (उपसदः) उपसत्तारः कर्मकराः (सन्तु) (राशयः) अशिपणाय्योरुडायलुकौ च। उ० ४।१३३। अशू व्याप्तौ−इण्, रुट् च। धान्यपुञ्जाः (पृणन्तः) अन्नं पूरयन्तः (अत्तारः) भोक्तारः। अन्यत्पूर्ववत् ॥
इस भाष्य को एडिट करें