Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 27/ मन्त्र 2
सूक्त - भृगु
देवता - यमः, निर्ऋतिः
छन्दः - त्रिष्टुप्
सूक्तम् - अरिष्टक्षयण सूक्त
शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॒वाः श॑कु॒नो गृ॒हं नः॑। अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥
स्वर सहित पद पाठशि॒व: । क॒पोत॑: । इ॒षि॒त: । न॒: । अ॒स्तु॒ । अ॒ना॒गा: । दे॒वा॒: । श॒कु॒न: । गृ॒हम् । न॒: । अ॒ग्नि: । हि। विप्र॑: । जु॒षता॑म् । ह॒वि: । न॒: । परि॑ । हे॒ति: । प॒क्षिणी॑ । न॒: । वृ॒ण॒क्तु॒ ॥२७.२॥
स्वर रहित मन्त्र
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः। अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥
स्वर रहित पद पाठशिव: । कपोत: । इषित: । न: । अस्तु । अनागा: । देवा: । शकुन: । गृहम् । न: । अग्नि: । हि। विप्र: । जुषताम् । हवि: । न: । परि । हेति: । पक्षिणी । न: । वृणक्तु ॥२७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 27; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(शिवः) सुखकरः (कपोतः) म० १। स्तुत्यो दूरदर्शी पुरुषः (इषितः) म० १। प्राप्तव्यः (नः) अस्मभ्यम् (अस्तु) (अनागाः) निर्दोषः (देवाः) हे विद्वांसः (शकुनः) शकेरुनोन्तोन्त्युनयः। उ० ३।४९। इति शक्लृ−शक्तौ−उन। शक्तः समर्थः (गृहम्) चतुर्थ्याः प्रथमा। गृहाय (नः) अस्माकम् (अग्निः) विद्वान् (हि) निश्चयेन (विप्रः) मेधावी−निघ० ३।१५। (जुषताम्) सेवताम्। स्वीकरोतु (हविः) दातव्यं ग्राह्यं कर्म (नः) अस्माकम् (परि) सर्वतः (हेतिः) अ० १।१३।३। हननसाधनम् वज्रः (पक्षिणी) पक्ष परिग्रहे−अच्, इनि, ङीप्। पक्षपातयुक्ता। अन्यायेन साहाय्यकारिणी (नः) अस्मान् (वृणक्तु) वर्जयतु ॥
इस भाष्य को एडिट करें