Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 33/ मन्त्र 3
सूक्त - जाटिकायन
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - इन्द्रस्तव सूक्त
स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्। इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ॥
स्वर सहित पद पाठस: । न॒: । द॒दा॒तु॒ । ताम् । र॒यिम् । उ॒रुम् । पि॒शङ्ग॑ऽसंदृशम् । इन्द्र॑:। पति॑: । तु॒विऽत॑म: । जने॑षु । आ ॥३३.३॥
स्वर रहित मन्त्र
स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम्। इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥
स्वर रहित पद पाठस: । न: । ददातु । ताम् । रयिम् । उरुम् । पिशङ्गऽसंदृशम् । इन्द्र:। पति: । तुविऽतम: । जनेषु । आ ॥३३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 33; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सः) इन्द्रः (नः) अस्मभ्यम् (ददातु) प्रयच्छतु (ताम्) प्रसिद्धाम् (रयिम्) लक्ष्मीम्। रयिः, धननाम निघ० २।१०। (उरुम्) विस्तृताम् (पिशङ्गसंदृशम्) विडादिभ्यः कित्। उ० १।१२१। इति पिश अवयवे−अङ्गच् कित्+सम्−दृशिर् दर्शने−क्विप्। स्वावयवदर्शयित्रीम्। सर्वपूर्णाम् (इन्द्रः) परमेश्वरः (पतिः) पालकः (तुविष्टमः) भुवः कित्। उ० २।११२। इति तु वृद्धौ−इसिन् कित्, तमप्। प्रवृद्धतमः। महत्तमः (जनेषु) मनुष्येषु (आ) अङ्गीकारे समुच्चये वा ॥
इस भाष्य को एडिट करें