Loading...
अथर्ववेद > काण्ड 6 > सूक्त 64

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 2
    सूक्त - अथर्वा देवता - विश्वे देवाः, मनः छन्दः - त्रिष्टुप् सूक्तम् - सांमनस्य सूक्त

    स॑मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं व्र॒तं स॒ह चि॒त्तमे॑षाम्। स॑मा॒नेन॑ वो ह॒विषा॑ जुहोमि समा॒नं चेतो॑ अभि॒संवि॑शध्वम् ॥

    स्वर सहित पद पाठ

    स॒मा॒न: । मन्त्र॑: । सम्ऽइ॑ति: । स॒मा॒नी । स॒मा॒नम् । व्र॒तम् । स॒ह । चि॒त्तम् । ए॒षा॒म् । स॒मा॒नेन॑ । व॒: । ह॒विषा॑ । जु॒हो॒मि॒ । स॒मा॒नम् । चे॑त: । अ॒भि॒ऽसंवि॑शध्वम् ॥६४.२॥


    स्वर रहित मन्त्र

    समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम्। समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥

    स्वर रहित पद पाठ

    समान: । मन्त्र: । सम्ऽइति: । समानी । समानम् । व्रतम् । सह । चित्तम् । एषाम् । समानेन । व: । हविषा । जुहोमि । समानम् । चेत: । अभिऽसंविशध्वम् ॥६४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 2

    टिप्पणीः - २−(समानः) सम्+अन प्राणने−घञ्। तुल्यः। एकरूपः (मन्त्रः) मत्रि गुप्तभाषणे−घञ्। सत्यासत्यविवेकः (समितिः) सम्+इण्−क्तिन्। संगतिः। सभा (समानी) एकरसा (समानम्) अविरुद्धम् (व्रतम्) अ० २।३०।२। वृञ्−अतच्। वरणीयं धर्माचरणम् (सह) संगतम् (चित्तम्) सर्वपदार्थविषयि ज्ञानम् (एषाम्) एतेषां युष्माकम् (समानेन) एकरूपेण (वः) युष्मान् (हविषा) ग्राह्येण धर्मणा (जुहोमि) हु दानादानादनेषु। आददे। स्वीकरोमि (समानम्) साधारणम् (चेतः) पूर्वापरानुभूतं स्मरणात्मकं चिन्तनम् (अभिसंविशध्वम्) अभितः प्रविशत। आत्मनि धारयत ॥

    इस भाष्य को एडिट करें
    Top