Loading...
अथर्ववेद > काण्ड 6 > सूक्त 79

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 79/ मन्त्र 1
    सूक्त - अथर्वा देवता - संस्फानम् छन्दः - गायत्री सूक्तम् - ऊर्जा प्राप्ति सूक्त

    अ॒यं नो॒ नभ॑स॒स्पतिः॑ सं॒स्फानो॑ अ॒भि र॑क्षतु। अस॑मातिं गृ॒हेषु॑ नः ॥

    स्वर सहित पद पाठ

    अ॒यम् । न॒: । नभ॑स: । पति॑: । स॒म्ऽस्फान॑: । अ॒भि । र॒क्ष॒तु॒ । अस॑मातिम् । गृ॒हेषु॑ । न॒: ॥७९.१॥


    स्वर रहित मन्त्र

    अयं नो नभसस्पतिः संस्फानो अभि रक्षतु। असमातिं गृहेषु नः ॥

    स्वर रहित पद पाठ

    अयम् । न: । नभस: । पति: । सम्ऽस्फान: । अभि । रक्षतु । असमातिम् । गृहेषु । न: ॥७९.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 79; मन्त्र » 1

    टिप्पणीः - १−(अयम्) सर्वव्यापकः (नः) अस्मदर्थम् (नभसः) अ० ४।१५।३। णह बन्धने−असुन्। हस्य भः। नभ आदित्यो भवति−निरु० २।१४। सूर्यस्य (पतिः) पालयिता परमेश्वरः (संस्फानः) स्फायी वृद्धौ−क्त, छान्दसं रूपम्। सम्यक् स्फीतः प्रवृद्धः (अभि) सर्वतः (रक्षतु) पातु (असमातिम्) असेस्तिः। उ० ४।१८०। माङ् माने−ति, यद्वा, मनु अवबोधने−क्तिन्, दीर्घश्च समानस्य सः। असमानां विशेषां मां लक्ष्मीं मतिं बुद्धिं वा (गृहेषु) गेहेषु (नः) अस्माकम् ॥

    इस भाष्य को एडिट करें
    Top