Loading...
अथर्ववेद > काण्ड 7 > सूक्त 99

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 99/ मन्त्र 1
    सूक्त - अथर्वा देवता - वेदिः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - वेदी सूक्त

    परि॑ स्तृणीहि॒ परि॑ धेहि॒ वेदिं॒ मा जा॒मिं मो॑षीरमु॒या शया॑नाम्। हो॑तृ॒षद॑नं॒ हरि॑तं हिर॒ण्ययं॑ नि॒ष्का ए॒ते यज॑मानस्य लो॒के ॥

    स्वर सहित पद पाठ

    परि॑ । स्तृ॒णी॒हि॒ । परि॑ । धे॒हि॒ । वेदि॑म् । मा । जा॒मिम् । मो॒षी॒: । अ॒मु॒या । शया॑नाम् । हो॒तृ॒ऽसद॑नम् । हरि॑तम् । हि॒र॒ण्यय॑म् । नि॒ष्का: । ए॒ते । यज॑मानस्‍य । लो॒के ॥१०४.१॥


    स्वर रहित मन्त्र

    परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम्। होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥

    स्वर रहित पद पाठ

    परि । स्तृणीहि । परि । धेहि । वेदिम् । मा । जामिम् । मोषी: । अमुया । शयानाम् । होतृऽसदनम् । हरितम् । हिरण्ययम् । निष्का: । एते । यजमानस्‍य । लोके ॥१०४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 99; मन्त्र » 1

    टिप्पणीः - १−(परि) सर्वतः (स्तृणीहि) स्तॄञ् आच्छादने। छादय। विस्तारय (परि) परितः (धेहि) पोषय (वेदिम्) अ० ५।२२।१। विद ज्ञाने-इन्। विद्यां यज्ञभूमिं वा (जामिम्) नियो मिः। उ० ४।४३। या प्रापणे−मि। यस्य जः। यद्वा वसिवपियजि०। उ० ४।१२५। जम गतौ-इञ्। जामिरन्येऽस्यां जनयन्ति जामपत्यम्। जमतेर्वा स्याद्गतिकर्मणे निर्गमनप्राया भवति-निरु० ३।६। गतिं प्रवृत्तिम् (मा मोषीः) मुष स्तेये-लुङ्। मा चोरय (अमुया) अनया वेद्या सह (शयानाम्) शीङ् शयने-शानच्। वर्तमानाम् (होतृषदनम्) दातृगृहम् (हरितम्) हृश्याभ्यामितन्। उ० ३।९३। हृञ् हरणे, स्वीकारे-इतन्। स्वीकरणीयम्। शोभनम् (हिरण्यम्) हिरण्यमयम्। सुवर्णयुक्तम् (निष्काः) नौ सदेर्डिच्च। उ० ३।४५। नि+षद्लृ विशरणगत्यवसादनेषु-कन्, स च डित्। सुवर्णमया अलङ्काराः (एते) दृश्यमानाः (यजमानस्य) देवपूजकस्य (लोके) गृहे ॥

    इस भाष्य को एडिट करें
    Top