Loading...
ऋग्वेद मण्डल - 10 के सूक्त 84 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 84/ मन्त्र 7
    ऋषिः - मन्युस्तापसः देवता - मन्युः छन्दः - विराड्जगती स्वरः - निषादः

    संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः । भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒: परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥

    स्वर सहित पद पाठ

    सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्ता॒म् । वरु॑णः । च॒ । म॒न्युः । भिय॑म् । दधा॑नाः । हृद॑येषु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्ता॒म् ॥


    स्वर रहित मन्त्र

    संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रव: पराजितासो अप नि लयन्ताम् ॥

    स्वर रहित पद पाठ

    सम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् । अस्मभ्यम् । दत्ताम् । वरुणः । च । मन्युः । भियम् । दधानाः । हृदयेषु । शत्रवः । पराऽजितासः । अप । नि । लयन्ताम् ॥ १०.८४.७

    ऋग्वेद - मण्डल » 10; सूक्त » 84; मन्त्र » 7
    अष्टक » 8; अध्याय » 3; वर्ग » 19; मन्त्र » 7

    पदार्थ -
    (वरुणः-च मन्युः) वरणीय परमात्मा तथा मानने योग्य-अनुभव करने योग्य आत्मप्रभाववाला या स्वाभिमानवाला सेनानायक (अस्मभ्यम्) हमारे लिये (उभयम्) दोनों प्रकारवाला सांसारिक और पारलौकिक (संसृष्टम्) संयुक्त (समाकृतम्) सम्पुष्ट (धनं दत्ताम्) धन देवे (शत्रवः-भियम्) शत्रुजन भय को (हृदयेषु दधानाः) हृदयों में धारण करते हुए (पराजितासः) पराजित होते हुए (अप निलयन्ताम्) दूर विलीन हो जावे ॥७॥

    भावार्थ - रजा को परमात्मा का आश्रय तथा सेनानायक का आश्रय लेने से सांसारिक और पारलौकिक ऐश्वर्य मिलता है, दोनों प्रकार के शत्रु भीतर बाहिर के दूर नष्ट हो जावेंगे ॥७॥

    इस भाष्य को एडिट करें
    Top