Loading...
अथर्ववेद > काण्ड 1 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 35/ मन्त्र 4
    सूक्त - अथर्वा देवता - हिरण्यम्, इन्द्राग्नी, विश्वे देवाः छन्दः - अनुष्टुब्गर्भा चतुष्पदा त्रिष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि। इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥

    स्वर सहित पद पाठ

    समा॑नाम् । मा॒साम् । ऋ॒तुऽभि॑: । त्वा॒ । व॒यम् । स॒म्ऽव॒त्स॒रस्य॑ । पय॑सा । पि॒प॒र्मि॒ ।इ॒न्द्र॒ग्नी इति॑ । विश्वे॑ । दे॒वा: । ते । अनु॑ । म॒न्य॒न्ता॒म् । अहृ॑णीयमाना: ॥


    स्वर रहित मन्त्र

    समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि। इन्द्राग्नी विश्वे देवास्ते ऽनु मन्यन्तामहृणीयमानाः ॥

    स्वर रहित पद पाठ

    समानाम् । मासाम् । ऋतुऽभि: । त्वा । वयम् । सम्ऽवत्सरस्य । पयसा । पिपर्मि ।इन्द्रग्नी इति । विश्वे । देवा: । ते । अनु । मन्यन्ताम् । अहृणीयमाना: ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 35; मन्त्र » 4

    भावार्थ -
    ( वयं ) हम आचार्यगण ( त्वा ) तुझ ब्रह्मचारी को ( समानां ) बहुत वर्षों और ( मासानां ) मासों और ( संवत्सरस्य ) पूर्ण वर्ष के ( पयसा ) पयस=पुष्टिकारक सारभूत सामर्थ्य से और ( ऋतुभिः ) नाना ऋतुओं के बल से ( पिपर्मि ) तपद्वारा पूर्ण करते हैं ( इन्द्राग्नी ) इन्द्र परमेश्वर और अग्नि तुम्हारा मुख्य आचार्य दोनों और ( विश्वदेवाः ) समस्त उपस्थित विद्वान् पुरुष ( अहृणीयमानाः ) संकोच रहित होकर ( ते ) तुझे इस उत्तम कार्य के निमित्त ( अनुमन्यन्ताम् ) अनुमति दें। इति षष्ठोऽनुवाकः। प्रथमं काण्डं समाप्तम्। [ पञ्चत्रिंशञ्च सूक्तानि त्रिपञ्चाशत् शतं ऋचः ]

    ऋषि | देवता | छन्द | स्वर - आयुष्कमोऽथर्वा ऋषिः। हिरण्यं विश्वेदेव वा देवताः। १-३ जगत्यः। ४ अनुष्टुप् गर्भा चतुष्पदा त्रिष्टुप्। चतुर्ऋचं सूक्तम् ।

    इस भाष्य को एडिट करें
    Top