Loading...
ऋग्वेद मण्डल - 1 के सूक्त 184 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 184/ मन्त्र 6
    ऋषिः - अगस्त्यो मैत्रावरुणिः देवता - अश्विनौ छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि। एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

    स्वर सहित पद पाठ

    अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ । आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥


    स्वर रहित मन्त्र

    अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि। एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥

    स्वर रहित पद पाठ

    अतारिष्म। तमसः। पारम्। अस्य। प्रति। वाम्। स्तोमः। अश्विनौ। अधायि। आ। इह। यातम्। पथिऽभिः। देवऽयानैः। विद्याम। इषम्। वृजनम्। जीरऽदानुम् ॥ १.१८४.६

    ऋग्वेद - मण्डल » 1; सूक्त » 184; मन्त्र » 6
    अष्टक » 2; अध्याय » 5; वर्ग » 1; मन्त्र » 6

    भावार्थ -
    व्याख्या देखो सूक्त १८३ । मन्त्र ६ ॥ इति प्रथमो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - अगस्त्य ऋषिः ॥ अश्विनौ देवते ॥ छन्दः—१ पङ्क्तिः। ४ भुरिक् पङ्क्तिः। ५, ६, निचृत् पङ्क्तिः । २, ३, विराट् त्रिष्टुप् ॥ षडर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top