Loading...
ऋग्वेद मण्डल - 10 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 43/ मन्त्र 2
    ऋषिः - कृष्णः देवता - इन्द्र: छन्दः - स्वराडार्चीजगती स्वरः - निषादः

    न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय । राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥

    स्वर सहित पद पाठ

    न । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मनः॑ । त्वे इति॑ । इत् । काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ । राजा॑ऽइव । द॒स्म॒ । नि । स॒दः॒ । अधि॑ । ब॒र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥


    स्वर रहित मन्त्र

    न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय । राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥

    स्वर रहित पद पाठ

    न । घ । त्वद्रिक् । अप । वेति । मे । मनः । त्वे इति । इत् । कामम् । पुरुऽहूत । शिश्रय । राजाऽइव । दस्म । नि । सदः । अधि । बर्हिषि । अस्मिन् । सु । सोमे । अवऽपानम् । अस्तु । ते ॥ १०.४३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 43; मन्त्र » 2
    अष्टक » 7; अध्याय » 8; वर्ग » 24; मन्त्र » 2

    भावार्थ -
    हे (पुरुहूत) बहुत मनुष्यों से पुकारे गये स्वामिन् ! प्रभो ! (त्वद्रिग्) तेरे प्रति लगा हुआ (मे मनः) मेरा मन (न घ अप वेति) अब तुझ से दूर नहीं जाता। प्रत्युत्त (वे इत् कामं शिश्रय) तुझ में ही मैं अपनी अभिलाषा को स्थापित करता हूँ। (राजा इव बर्हिषि) राजा जिस प्रकार आसन वा वृद्धियुक्त वा प्रजा पर विराजता है, उसी प्रकार हे (दस्म) दर्शनीय, दुष्टों वा दुःखों के नाशक ! तू (अस्मिन् बर्हिषि राजा, इव नि षदः) इस लोक-समूह वा यज्ञ में राजा के तुल्य अधिष्ठित हो। (अस्मिन् सोमे) इस उत्पन्न जगत् में (ते सु अवपानं अस्तु) तेरा ही सर्वश्रेष्ठ परिपालन कार्य हो।

    ऋषि | देवता | छन्द | स्वर - ऋषिः कृष्णः॥ इन्द्रो देवता॥ छन्दः- १, ९ निचृज्जगती। २ आर्ची स्वराड् जगती। ३, ६ जगती। ४, ५, ८ विराड् जगती। १० विराट् त्रिष्टुप्। ११ त्रिष्टुप्। एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top