Loading...
ऋग्वेद मण्डल - 7 के सूक्त 53 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 53/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - द्यावापृथिव्यौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उ॒तो हि वां॑ रत्न॒धेया॑नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑। अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥३॥

    स्वर सहित पद पाठ

    उ॒तो इति॑ । हि । वा॒म् । र॒त्न॒ऽधेया॑नि । सन्ति॑ । पु॒रूणि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽदासे॑ । अ॒स्मे इति॑ । ध॒त्त॒म् । यत् । अस॑त् । अस्कृ॑धोयु । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे। अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः ॥३॥

    स्वर रहित पद पाठ

    उतो इति। हि। वाम्। रत्नऽधेयानि। सन्ति। पुरूणि। द्यावापृथिवी इति। सुऽदासे। अस्मे इति। धत्तम्। यत्। असत्। अस्कृधोयु। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥३॥

    ऋग्वेद - मण्डल » 7; सूक्त » 53; मन्त्र » 3
    अष्टक » 5; अध्याय » 4; वर्ग » 20; मन्त्र » 3

    भावार्थ -
    हे ( द्यावा पृथिवी ) भूमि सूर्य वा भूमि विद्युत् के तुल्य माता पिताओ ! (सु-दासे) आप दोनों उत्तम भृत्यों और उत्तम दानशील गुणों से युक्त होओ । अथवा उत्तम दानशील पुरुष के लिये ( वां ) आप दोनों के ( पुरूणि रत्न-धेयानि ) बहुत से सुन्दर ऐश्वर्य ( सन्ति ) हैं । ( यत् ) जो भी ( अस्कृधोयु ) बहुत अधिक जीवनप्रद ( असत् ) हो वह (अस्मे धत्तं ) हमें प्रदान करो । ( यूयं ) आप सब लोग ( स्वस्तिभिः) उत्तम कल्याणकारी साधनों से ( नः पात ) हमारी रक्षा करें । इति विंशो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ द्यावापृथिव्यौ देवते । छन्दः –१ त्रिष्टुप् । २, निचृत्त्रिष्टुप् ॥ तृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top