Loading...
ऋग्वेद मण्डल - 8 के सूक्त 52 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 52/ मन्त्र 10
    ऋषिः - आयुः काण्वः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    समिन्द्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य॑म् । सं शु॒क्रास॒: शुच॑य॒: सं गवा॑शिर॒: सोमा॒ इन्द्र॑ममन्दिषुः ॥

    स्वर सहित पद पाठ

    सम् । इन्द्रः॑ । रायः॑ । बृ॒ह॒तीः । अ॒धू॒नु॒त॒ । सम् । क्षो॒णी इति॑ । सम् । ऊँ॒ इति॑ । सूर्य॑म् । सम् । शु॒क्रासः॑ । शुच॑यः । सम् । गोऽआ॑शिरः । सोमाः॑ । इन्द्र॑म् । अ॒म॒न्दि॒षुः॒ ॥


    स्वर रहित मन्त्र

    समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । सं शुक्रास: शुचय: सं गवाशिर: सोमा इन्द्रममन्दिषुः ॥

    स्वर रहित पद पाठ

    सम् । इन्द्रः । रायः । बृहतीः । अधूनुत । सम् । क्षोणी इति । सम् । ऊँ इति । सूर्यम् । सम् । शुक्रासः । शुचयः । सम् । गोऽआशिरः । सोमाः । इन्द्रम् । अमन्दिषुः ॥ ८.५२.१०

    ऋग्वेद - मण्डल » 8; सूक्त » 52; मन्त्र » 10
    अष्टक » 6; अध्याय » 4; वर्ग » 21; मन्त्र » 5

    भावार्थ -
    ( इन्द्रः ) परमेश्वर ही ( रायः ) समस्त ऐश्वर्यों और ( बृहतीः ) जगत् की बड़ी २ शक्तियों को ( सम् अधूनुत ) अच्छी प्रकार संचालित करता है। वही ( क्षोणीः सं सूर्यंम् उ सम् ) समस्त पृथिवियों और सूर्य को चलाता है, ( शुचयः शुक्रासः ) शुद्धाचारवान्, तेजस्वी पुमान् पुरुष और ( गवाशिरः सोमाः ) वेदवाणी का आश्रय लेने वाले जितेन्द्रिय पुरुष ( इन्द्रम् सं सम् अमन्दिषुः ) अच्छी प्रकार स्तुति करते, उसे प्रसन्न करते हैं। इत्येकविंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - आयुः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ७ निचृद् बृहती। ३, बृहती। ६ विराड् बृहती। २ पादनिचृत् पंक्तिः। ४, ६, ८, १० निचृत् पंक्तिः॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top