Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 7
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा शक्वरी सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तमिन्द्रः॒ प्रत्य॑मुञ्च॒तौज॑से वी॒र्याय॒ कम्। सो अ॑स्मै॒ बल॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । इन्द्र॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । ओज॑से । वी॒र्या᳡य । कम् । स: । अ॒स्मै॒ । बल॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.७॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे। तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम्। सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । मणिम् । फालम् । घृतऽश्चुतम् । उग्रम् । खदिरम् । ओजसे । तम् । इन्द्र: । प्रति । अमुञ्चत । ओजसे । वीर्याय । कम् । स: । अस्मै । बलम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 7

    भावार्थ -
    (यम् फालं घृतश्चुतं=खदिरं उग्रं मणिं बृहस्पतिः ओजसे अबध्नात्) शत्रु सेना के तोड़ने फोड़ने वाले बल पराक्रम के कर्त्ता, शत्रु के विनाशक, तीक्ष्णस्वभाव, बलवान् शिरोमणि पुरुष को (बृहस्पतिः) वेदज्ञ विद्वान्, महामात्य राजा के कार्य में बांधता है (तम् इन्द्रः ओजसे वीर्याय कम् प्रति अमुञ्चत) उसको इन्द्र ऐश्वर्यशील राजा अपने तेज और वीर्य की वृद्धि के लिये ही धारण करता है। (सः अस्मै भूयो भूयः बलम् इद् दुहे) वह उस राजा के लिये बराबर बल को ही बढ़ाता है। (तेन श्वःश्वः त्वं द्विषतः जहि) उसके बल से तू हे राजन् ! भविष्य में अपने शत्रुओं को मारने में समर्थ हो।

    ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top