अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 7
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - विराडास्तारपंक्तिः
सूक्तम् - अजरक्षत्र
प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑। ती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥
स्वर सहित पद पाठप्र । इ॒त॒ । जय॑त । न॒र॒: । उ॒ग्रा: । व॒: । स॒न्तु॒ । बा॒हव॑: । ती॒क्ष्णऽइ॑षव: । अ॒ब॒लऽध॑न्वन: । ह॒त॒ । उ॒ग्रऽआ॑युधा: । अ॒ब॒लान् । उ॒ग्रऽबा॑हव: ॥१९.७॥
स्वर रहित मन्त्र
प्रेता जयता नर उग्रा वः सन्तु बाहवः। तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलानुग्रबाहवः ॥
स्वर रहित पद पाठप्र । इत । जयत । नर: । उग्रा: । व: । सन्तु । बाहव: । तीक्ष्णऽइषव: । अबलऽधन्वन: । हत । उग्रऽआयुधा: । अबलान् । उग्रऽबाहव: ॥१९.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 7
विषय - शत्रुओं पर विजय करने के लिये अपने राष्ट्र की शक्ति बढ़ाने का उपदेश ।
भावार्थ -
हे (नरः) नेता लोगो ! (प्र इत) आगे बढ़ो (जयत) विजय करो (वः) तुम्हारी (बाहवः) बाहुएं (उग्राः सन्तु) खुब बलशाली और शत्रुओं को विनाश करने में भयंकर हो उठे । और आप लोग (तीक्ष्ण-इषवः उग्र-आयुधाः) तीक्ष्ण धनुष बाण और भयंकर २ हथियार धारण कर (उग्र-बाहवः) प्रचण्ड-बाहु होकर (अबल-धन्वनः) कच्चे निर्बल धनुष वाले, (अबलान्) निर्बल शत्रुओं को (हत) विनाश करो।
टिप्पणी -
ऋग्वेदे अप्रतिरथ ऐन्द्र ऋषिः। ‘उद्धर्षय भगवन्नायुधान्युत्सत्वनां मामकानां मनांसि। उद् वृत्रहन् वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः।’ इति ऋ० ॥ उद्धर्वन्तावाजिनां वाजिनान्युद् वेराणां जयतामतु घोषः पृथग्घोष ऊलुलय केतुमन्त उदीरताम् इति पैप्प० स०।
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। विश्वेदेवा उत चन्द्रमा उतेन्दो देवता । पथ्याबृहती । ३ भुरिग् बृहती, व्यवसाना षट्पदा त्रिष्टुप् ककुम्मतीगर्भातिजगती। ७ विराडास्तारपंक्तिः । ८ पथ्यापंक्तिः। २, ४, ५ अनुष्टुभः। अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें