ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 5
होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् । प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥
स्वर सहित पद पाठहोता॑रम् । चि॒त्रऽर॑थम् । अ॒ध्व॒रस्य॑ । य॒ज्ञस्य॑ऽयज्ञस्य । के॒तुम् । रुश॑न्तम् । प्रति॑ऽअर्धिम् । दे॒वस्य॑ऽदेवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति॑थिम् । जना॑नाम् ॥
स्वर रहित मन्त्र
होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् । प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्व१ग्निमतिथिं जनानाम् ॥
स्वर रहित पद पाठहोतारम् । चित्रऽरथम् । अध्वरस्य । यज्ञस्यऽयज्ञस्य । केतुम् । रुशन्तम् । प्रतिऽअर्धिम् । देवस्यऽदेवस्य । मह्ना । श्रिया । त्वम् । अग्निम् । अतिथिम् । जनानाम् ॥ १०.१.५
ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 5
पदार्थः -
(अध्वरस्य यज्ञस्य-यज्ञस्य होतारम्) अहिंसनीयस्य-अबाध्यस्य यज्ञमात्रस्य जीवनयज्ञस्य होमयज्ञस्य च सम्पादयितारम् (रुशन्तम्-केतुम्) ज्वलन्तं सर्वप्रेरकं सूर्यम् (चित्ररथम्) दर्शनीयमण्डलवन्तं तथा (देवस्य देवस्य प्रत्यर्धिम्) द्योतमानस्य ग्रहनक्षत्रादिकस्य “देवः-द्युस्थानो भवतीति वा” [निरु० ७।१६] दिव्यपदार्थस्य ज्ञानिनो जनस्य च प्रतिवर्धकम् (जनानां मह्ना श्रिया तु-अतिथिम्) जन्यमानानां प्राणिनां स्वमहत्या कान्त्या दीप्त्या क्षिप्रं निरन्तरं गमनशीलं प्रवेशकर्त्तारम् (अग्निम्) सूर्यरूपं बृहन्तमग्निं वयं सेवेमहि ॥५॥