Loading...
ऋग्वेद मण्डल - 10 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 6
    ऋषिः - त्रितः देवता - अग्निः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः । अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥

    स्वर सहित पद पाठ

    सः । तु । वस्त्रा॑णि । अध॑ । पेश॑नानि । वसा॑नः । अ॒ग्निः । नाभा॑ । पृ॒थि॒व्याः । अ॒रु॒षः । जा॒तः । प॒दे । इळा॑याः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥


    स्वर रहित मन्त्र

    स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः । अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥

    स्वर रहित पद पाठ

    सः । तु । वस्त्राणि । अध । पेशनानि । वसानः । अग्निः । नाभा । पृथिव्याः । अरुषः । जातः । पदे । इळायाः । पुरःऽहितः । राजन् । यक्षि । इह । देवान् ॥ १०.१.६

    ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 6
    अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 6

    पदार्थः -
    (अध) अथापि (सः-तु-अग्निः) स एव बृहन्-अग्निः सूर्यः (पृथिव्याः-नाभा) अन्तरिक्षस्य मध्ये “पृथिवी-अन्तरिक्षनाम” [निघ० १।३] “सुपां सुलुक् पूर्वसवर्णाच्छे”० [अष्टा० ७।१।३९] आकारादेशः “मध्यं वै नाभिः [श० १।१।२।२] (इळायाः पदे जातः-अरुषः) वृष्ट्याः पदे मेघे “वृष्टिर्वा इळा” [तै०सं० १।७।२।५] विद्युद्रूपेण जातो रोचमानः सन् (पेशनानि वस्त्राणि वसानः) हिरण्यानि सुवर्णरूपाणि “पेशः-हिरण्यनाम” [निघ० १।२] वस्त्राणि-वस्त्राणीव तरङ्गात्मकानि शाटीसदृशानि तिरश्चीनि परिदधानः (पुरः-हितः) साक्षात् खल्वाकाशे धृतः सन् (राजन्) त्वं वर्षाकामनायाः स्वामिन् ! (इह देवान् यक्षि) अस्मिन्मेघमण्डले वायुप्रभृतीन् देवान् स्वस्मिन् योजय वृष्टिनिपातनाय ॥६॥

    इस भाष्य को एडिट करें
    Top