ऋग्वेद - मण्डल 10/ सूक्त 135/ मन्त्र 2
पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या । अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुन॑: ॥
स्वर सहित पद पाठपु॒रा॒णा॑न् । अ॒नु॒ऽवेन॑न्तम् । चर॑न्तम् । पा॒पया॑ । अ॒मु॒या । अ॒सू॒यन् । अ॒भि । अ॒चा॒क॒श॒म् । तस्मै॑ । अ॒स्पृ॒ह॒य॒म् । पुन॒रिति॑ ॥
स्वर रहित मन्त्र
पुराणाँ अनुवेनन्तं चरन्तं पापयामुया । असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुन: ॥
स्वर रहित पद पाठपुराणान् । अनुऽवेनन्तम् । चरन्तम् । पापया । अमुया । असूयन् । अभि । अचाकशम् । तस्मै । अस्पृहयम् । पुनरिति ॥ १०.१३५.२
ऋग्वेद - मण्डल » 10; सूक्त » 135; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 23; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 23; मन्त्र » 2
पदार्थः -
(पुराणान्-अनुवेनन्तम्) पुरातनान् व्यवहाराननुलक्ष्य फलप्रदानं कामयमानं (अमुया पापया) तया पापया पापवृत्त्या वासनया (चरन्तम् असूयन्-अभि अचाकशम्) चरन् “प्रथमार्थे द्वितीया व्यत्ययेन” अहं निन्दयन् पश्यामि (तस्मै पुनः-अस्पृहयम्) तस्मै-पुनः स्पृहयामि-वाञ्छामि ॥२॥