Loading...
ऋग्वेद मण्डल - 10 के सूक्त 135 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 135/ मन्त्र 3
    ऋषिः - कुमारो यामायनः देवता - यमः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः । एके॑षं वि॒श्वत॒: प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥

    स्वर सहित पद पाठ

    यम् । कु॒मा॒र॒ । नव॑म् । रथ॑म् । अ॒च॒क्रम् । मन॑सा । अकृ॑णोः । एक॑ऽईषम् । वि॒श्वतः॑ । प्राञ्च॑म् । अप॑श्यन् । अधि॑ । ति॒ष्ठ॒सि॒ ॥


    स्वर रहित मन्त्र

    यं कुमार नवं रथमचक्रं मनसाकृणोः । एकेषं विश्वत: प्राञ्चमपश्यन्नधि तिष्ठसि ॥

    स्वर रहित पद पाठ

    यम् । कुमार । नवम् । रथम् । अचक्रम् । मनसा । अकृणोः । एकऽईषम् । विश्वतः । प्राञ्चम् । अपश्यन् । अधि । तिष्ठसि ॥ १०.१३५.३

    ऋग्वेद - मण्डल » 10; सूक्त » 135; मन्त्र » 3
    अष्टक » 8; अध्याय » 7; वर्ग » 23; मन्त्र » 3

    पदार्थः -
    (कुमार) कुत्सितो मारो मृत्युर्यस्य सः-आत्मा तत्सम्बुद्धौ हे आत्मन् ! (यं नवं रथम्-अचक्रं-मनसा-अकृणोः) यं नवीनं देहरथं चक्ररहितं स्वयं गमनशीलं त्वं मनसा प्राप्नोषि “मनोऽधिकृतेनायात्यस्मिन्-शरीरे” [प्रश्नो०] (एकेषम्) एका-ईषा गतिर्यस्य तम्, भोगप्रवृत्तिकं (विश्वतः प्राञ्चम्) सर्वतः प्रगतिकं मनुष्यपशुपक्षियोनिषु गच्छन्तम् (अपश्यन्-अधि तिष्ठसि) अजानन् विराजसे ॥३॥

    इस भाष्य को एडिट करें
    Top