Loading...
ऋग्वेद मण्डल - 10 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 37/ मन्त्र 1
    ऋषिः - अभितपाः सौर्यः देवता - सूर्यः छन्दः - निचृज्जगती स्वरः - निषादः

    नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत । दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥

    स्वर सहित पद पाठ

    नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । म॒हः । दे॒वाय॑ । तत् । ऋ॒तम् । स॒प॒र्य॒त॒ । दू॒रे॒ऽदृशे॑ । दे॒वऽजा॑ताय । के॒तवे॑ । दि॒वः । पु॒त्राय॑ । सूर्या॑य । शं॒स॒त॒ ॥


    स्वर रहित मन्त्र

    नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत । दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ॥

    स्वर रहित पद पाठ

    नमः । मित्रस्य । वरुणस्य । चक्षसे । महः । देवाय । तत् । ऋतम् । सपर्यत । दूरेऽदृशे । देवऽजाताय । केतवे । दिवः । पुत्राय । सूर्याय । शंसत ॥ १०.३७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 37; मन्त्र » 1
    अष्टक » 7; अध्याय » 8; वर्ग » 12; मन्त्र » 1

    पदार्थः -
    (मित्रस्य वरुणस्य चक्षसे नमः) प्रेरकस्य दिनरूपस्य “अहर्वै मित्रः” [ऐ० ४।१०] संसारस्य तथा स्वस्मिन् वरयितू रात्रिरूपस्य “रात्रिर्वरुणः” [ऐ० ४।१०] प्रलयस्य प्रख्यापकाय-परमात्मने नमोऽस्तु-अध्यात्मयज्ञोऽस्तु “यज्ञो वै नमः” [श० २।४।२।२४] (महः-देवाय तत्-ऋतं सपर्यत) महते परमात्मदेवाय तत् सत्य-सङ्कल्पं सत्यवचनं सत्यकर्म  च सपर्यत निष्कामा भूत्वा कर्म कुरुत (दूरेदृशे) दूरेऽपि दृक्शक्तिर्यस्य तथाभूताय सर्वज्ञाय परमात्मने (देवजाताय) देवा जाता यस्मात् तस्मै (केतवे) प्रेरकाय (दिनः-पुत्राय) मोक्षधाम्नो दोषेभ्यः पवित्रकारकाय “पुवो ह्रस्वश्च” [उणा० ४।१६५] इति पूञ् धातोः क्तः-प्रत्ययः। पुत्रः यः पुनाति सः [ऋ० १।१८१।४ दयानन्दः] (सूर्याय) ज्ञानप्रकाशकाय (शंसत) स्तुतिं कुरुत ॥१॥

    इस भाष्य को एडिट करें
    Top