Loading...
ऋग्वेद मण्डल - 10 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 37/ मन्त्र 2
    ऋषिः - अभितपाः सौर्यः देवता - सूर्यः छन्दः - निचृज्जगती स्वरः - निषादः

    सा मा॑ स॒त्योक्ति॒: परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च । विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्य॑: ॥

    स्वर सहित पद पाठ

    सा । मा॒ । स॒त्यऽउ॑क्तिः । परि॑ । पा॒तु॒ । वि॒श्वतः॑ । द्यावा॑ । च॒ । यत्र॑ । त॒तन॑न् । अहा॑नि । च॒ । विश्व॑म् । अ॒न्यत् । नि । वि॒श॒ते॒ । यत् । एज॑ति । वि॒श्वाहा॑ । आपः॑ । वि॒श्वाहा॑ । उत् । ए॒ति॒ । सूर्यः॑ ॥


    स्वर रहित मन्त्र

    सा मा सत्योक्ति: परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च । विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्य: ॥

    स्वर रहित पद पाठ

    सा । मा । सत्यऽउक्तिः । परि । पातु । विश्वतः । द्यावा । च । यत्र । ततनन् । अहानि । च । विश्वम् । अन्यत् । नि । विशते । यत् । एजति । विश्वाहा । आपः । विश्वाहा । उत् । एति । सूर्यः ॥ १०.३७.२

    ऋग्वेद - मण्डल » 10; सूक्त » 37; मन्त्र » 2
    अष्टक » 7; अध्याय » 8; वर्ग » 12; मन्त्र » 2

    पदार्थः -
    (सा सत्योक्तिः मा विश्वतः परिपातु) सा सत्यवाक्-वेदवाक् श्रुतिरीश्वरवाणी मां सर्वतः खलु परिरक्षति सम्यक् सेवनेन ‘अत्र लडर्थे लोट्’ (यत्र) यदाश्रये (द्यावा च) द्यावौ “द्यावा…द्यावौ” [निरु० २।२१] द्यावापृथिव्यौ-द्युलोकपृथिवीलोकौ च (अहानि च) दिनानि च चकाराद् रात्रयश्च (ततनन्) प्रसरन्ति (विश्वम्-अन्यत्-निविशते) सर्वमन्यत्-यत् खलु स्थिरत्वं प्राप्तं जडं वस्तु (यत्-एजति) यच्च चेष्टते-चेतनं वस्तु (आपः-विश्वाहा) आपः सर्वदा प्रवहन्ति (सूर्यः-विश्वाहा-उदेति) सूर्यश्च नित्यमुदेति ॥२॥

    इस भाष्य को एडिट करें
    Top