Loading...
ऋग्वेद मण्डल - 10 के सूक्त 50 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 50/ मन्त्र 7
    ऋषिः - इन्द्रो वैकुण्ठः देवता - इन्द्रो वैकुण्ठः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    ये ते॑ विप्र ब्रह्म॒कृत॑: सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ । प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ॥

    स्वर सहित पद पाठ

    ये । ते॒ । वि॒प्र॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । वसू॑नाम् । च॒ । वसु॑नः । च॒ । दा॒वने॑ । प्र । ते । सु॒म्नस्य॑ । मन॑सा । प॒था । भु॒व॒न् । मदे॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः ॥


    स्वर रहित मन्त्र

    ये ते विप्र ब्रह्मकृत: सुते सचा वसूनां च वसुनश्च दावने । प्र ते सुम्नस्य मनसा पथा भुवन्मदे सुतस्य सोम्यस्यान्धसः ॥

    स्वर रहित पद पाठ

    ये । ते । विप्र । ब्रह्मऽकृतः । सुते । सचा । वसूनाम् । च । वसुनः । च । दावने । प्र । ते । सुम्नस्य । मनसा । पथा । भुवन् । मदे । सुतस्य । सोम्यस्य । अन्धसः ॥ १०.५०.७

    ऋग्वेद - मण्डल » 10; सूक्त » 50; मन्त्र » 7
    अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 7

    पदार्थः -
    (विप्र) हे विशिष्टतया प्रीणयितः परमात्मन् ! (ते) तव (ब्रह्मकृतः) ये खलु स्तोत्रकृतः स्तुतिकर्तारः (सुते सचा) उपासनाप्रसङ्गे सम्मिलिताः (वसूनां च वसुनः-च दावने) सांसारिकधनानां वासकधनस्य मोक्षस्य च दानाय दाननिमित्तं स्तुवन्तीति शेषः, तथा (मनसा पथा) मनोभावेन पथा सत्पथा सदाचरणेन च (ते मदे) तव हर्षनिमित्तम् (सुम्नस्य-सुतस्य सोम्यस्य प्रभुवन्) साधुभावस्य निष्पादितस्योपासनारसस्य समर्पणे प्रभवन्ति तान् त्वमनुगृहाण ॥७॥

    इस भाष्य को एडिट करें
    Top