ऋग्वेद - मण्डल 10/ सूक्त 51/ मन्त्र 1
म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः । विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एक॑: ॥
स्वर सहित पद पाठम॒हत् । तत् । उल्ब॑म् । स्थवि॑रम् । तत् । आ॒सी॒त् । येन॑ । आऽवि॑ष्टितः । प्र॒ऽवि॒वेशि॑थ । अ॒पः । विश्वाः॑ । अ॒प॒श्य॒त् । ब॒हु॒धा । ते॒ । अ॒ग्ने॒ । जात॑ऽवेदः । त॒न्वः॑ । दे॒वः । एकः॑ ॥
स्वर रहित मन्त्र
महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः । विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एक: ॥
स्वर रहित पद पाठमहत् । तत् । उल्बम् । स्थविरम् । तत् । आसीत् । येन । आऽविष्टितः । प्रऽविवेशिथ । अपः । विश्वाः । अपश्यत् । बहुधा । ते । अग्ने । जातऽवेदः । तन्वः । देवः । एकः ॥ १०.५१.१
ऋग्वेद - मण्डल » 10; सूक्त » 51; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 10; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 10; मन्त्र » 1
विषयः - अत्र सूक्ते ‘अग्नि’शब्देन आत्मा विद्युदग्निश्च गृह्येते । तत्रात्मनो जन्मधारणमन्नपानं च विषयग्रहणं चैव कार्यं यथा कल्याणं मोक्षं च भवेत्। विद्युतः प्रयोगश्चैवं कर्त्तव्यो यथा यन्त्रचालनं सुव्यवस्थितं भवेदेवमादयो विषयाः सन्ति।
पदार्थः -
(जातवेदः-अग्ने) जातः सन् वेद्यते जनैर्विद्युदग्ने वा-इति तद्धर्मवन् शरीरेण जातेन सह वेद्यतेऽस्तीति जनैर्वेद्यतेऽनुभूयतेऽस्त्यात्मा-ऽग्निर्हात्मा तथाभूत अग्ने-आत्मन् (तत्-उल्बं महत् स्थविरम्) गर्भे तत् खलूल्बमाच्छादकं वस्त्रमिव जलं विद्युततरङ्गमण्डलं वाकाशे विद्यमानं महत्त्वपूर्णं बृहद्वा पुरातनं जन्मजन्मान्तरपरम्परया प्राप्तं यद्वा पुरातनं सृष्टेरारम्भतः प्रवर्तमानम् (तत् आसीत्) तदस्ति प्रवर्तते (येन-आविष्टितः-अपः-प्रविवेशिथ) येन सह-आवेष्टितः सर्वतो रक्षितः सन् “वेष्ट वेष्टने” [भ्वादिः] ‘ह्रस्वत्वं छान्दसम्’ प्राणान् “आपो वै प्राणाः” [श. ३।८।२।४] जलानि-आकाशीयमेघरूपजलानि पार्थिवनदीस्रोतःप्रभृति जलानि च प्रविष्टो भवसि (ते विश्वा बहुधा तन्वः-एकः-देवः-अपश्यत्) तव बहुविधानि सर्वाण्यङ्गानि बहुविधा व्याप्तयो वा “तनूः-व्याप्तिः” [यजु० ५।८ दयानन्दः] विस्तृतास्तरङ्गाः, एको यमः-नियन्ता कर्मानुसारतः प्रवेशयिता, एकः सुखदाता प्रकाशयिता परमात्मा विद्वान् वा जानाति प्रकाशयति वा ॥१॥