ऋग्वेद - मण्डल 10/ सूक्त 76/ मन्त्र 2
ऋषिः - जरत्कर्ण ऐरावतः सर्पः
देवता - ग्रावाणः
छन्दः - स्वराडार्चीजगती
स्वरः - निषादः
तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रि॑: सो॒तरि॑ । वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥
स्वर सहित पद पाठतत् । ऊँ॒ इति॑ । श्रेष्ठ॑म् । सव॑नम् । सु॒नो॒त॒न॒ । अत्यः॑ । न । हस्त॑ऽयतः । अद्रिः॑ । सो॒तरि॑ । वि॒दत् । हि । अ॒र्यः । अ॒भिऽभू॑ति । पौंस्य॑म् । म॒हः । रा॒ये । चि॒त् । त॒रु॒ते॒ । यत् । अर्व॑तः ॥
स्वर रहित मन्त्र
तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रि: सोतरि । विदद्ध्य१र्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥
स्वर रहित पद पाठतत् । ऊँ इति । श्रेष्ठम् । सवनम् । सुनोतन । अत्यः । न । हस्तऽयतः । अद्रिः । सोतरि । विदत् । हि । अर्यः । अभिऽभूति । पौंस्यम् । महः । राये । चित् । तरुते । यत् । अर्वतः ॥ १०.७६.२
ऋग्वेद - मण्डल » 10; सूक्त » 76; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 8; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 8; मन्त्र » 2
पदार्थः -
(तत्-उ श्रेष्ठं सवनं सुनोतन) तत् खलु श्रेष्ठमवसरं सम्पादयत (हस्तयतः-अत्यः-न) हस्तयोर्यतो नियन्त्रितोऽश्वो यथा भवति तथा “अत्योऽश्वनाम” [निघ० १।१४] (सोतरि-अद्रिः) प्रेरयितरि परमात्मनि श्लोककर्त्ता प्रशंसको भूयासम् “अद्रिरसि श्लोककृत्” [कठ० १।५] (अर्यः-अभिभूति पौंस्यं विदत्) स्वामी परमात्मा अभिभूतिकरं पौरुषमात्मबलं प्रापयेत् (महः-राये चित्) महते मोक्षैश्वर्याय खल्वपि (यत्-अर्वतः-तरुते) प्राप्तव्यान् प्राप्तान् वा पदार्थान् प्रयच्छति प्रवर्धयति तथाभूतं पौरुषं प्रापयेत् ॥२॥