Loading...
ऋग्वेद मण्डल - 10 के सूक्त 76 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 76/ मन्त्र 3
    ऋषिः - जरत्कर्ण ऐरावतः सर्पः देवता - ग्रावाणः छन्दः - स्वराडार्चीजगती स्वरः - निषादः

    तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् । गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ॥

    स्वर सहित पद पाठ

    तत् । इत् । हि । अ॒स्य॒ । सव॑नम् । वि॒वेः । अ॒पः । यथा॑ । पु॒रा । मन॑वे । गा॒तुम् । अश्रे॑त् । गोऽअ॑र्णसि । त्वा॒ष्ट्रे । अश्व॑ऽनिर्निजि । प्र । ई॒म् । अ॒ध्व॒रेषु॑ । अ॒ध्व॒रान् । अ॒शि॒श्र॒युः॒ ॥


    स्वर रहित मन्त्र

    तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् । गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयुः ॥

    स्वर रहित पद पाठ

    तत् । इत् । हि । अस्य । सवनम् । विवेः । अपः । यथा । पुरा । मनवे । गातुम् । अश्रेत् । गोऽअर्णसि । त्वाष्ट्रे । अश्वऽनिर्निजि । प्र । ईम् । अध्वरेषु । अध्वरान् । अशिश्रयुः ॥ १०.७६.३

    ऋग्वेद - मण्डल » 10; सूक्त » 76; मन्त्र » 3
    अष्टक » 8; अध्याय » 3; वर्ग » 8; मन्त्र » 3

    पदार्थः -
    (अस्य) अस्यात्मनः (तत्-इत्-हि) तदेव (सवनम्-अपः-विवेः) अवसरं कर्म विवृणोति (यथा मनवे पुरागातुम्-अश्रेत्) यथा पुराकाले मननशीलाय-अस्मै जनाय गमनं प्राप्तमभूत् (त्वाष्ट्रे गो-अर्णसि) त्वष्टुः परमात्मनः सम्बन्धिनि स्तुतिभिः प्राप्तव्यानन्दरसे मोक्षे (अश्वनिर्णिजि) इन्द्रियाश्वानां शोधनेन लभ्ये (अध्वरेषु-अध्वरान्-ईं प्र-अशिश्रयुः) अध्यात्मयज्ञेषु-अध्वरवन्तोऽध्यात्मयाजिनः “अकारो मत्वर्थीयोऽत्र छान्दसः” आश्रिता भवन्ति ॥३॥

    इस भाष्य को एडिट करें
    Top