Loading...
ऋग्वेद मण्डल - 10 के सूक्त 95 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 16
    ऋषिः - उर्वशी देवता - पुरुरवा ऐळः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्री॑: श॒रद॒श्चत॑स्रः । घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥

    स्वर सहित पद पाठ

    यत् । विऽरू॒पा । अच॑रम् । मर्त्ये॑षु । अव॑सम् । रात्रीः॑ । श॒रदः॑ । चत॑स्रः । घृ॒तस्य॑ । स्तो॒कम् । स॒कृत् । अह्नः॑ । आ॒श्ना॒म् । तात् । ए॒व । इ॒दम् । त॒तृ॒पा॒णा । च॒रा॒मि॒ ॥


    स्वर रहित मन्त्र

    यद्विरूपाचरं मर्त्येष्ववसं रात्री: शरदश्चतस्रः । घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥

    स्वर रहित पद पाठ

    यत् । विऽरूपा । अचरम् । मर्त्येषु । अवसम् । रात्रीः । शरदः । चतस्रः । घृतस्य । स्तोकम् । सकृत् । अह्नः । आश्नाम् । तात् । एव । इदम् । ततृपाणा । चरामि ॥ १०.९५.१६

    ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 16
    अष्टक » 8; अध्याय » 5; वर्ग » 4; मन्त्र » 1

    पदार्थः -
    (यत्-विरूपा-अचरम्) यतोऽहं पूर्वतो-ब्रह्मचारिणी खल्वासं तद्विरुद्धा गृहिणी त्वं चरितवती चरामि (मर्त्येषु-अवसम्) पुरुषेषु पुरुषाणां सम्पर्के-एकस्य भार्या भूत्वा वसामि (शरदः-चतस्रः-रात्रीः) शीतकालिकाः खलु चतस्रो रात्रीः-तिष्ठन्तु-रजस्वलास्थाभूताः पुनरेका गर्भाधानविषयिकाः वासं कृतवती वसामि (अह्नः सकृत्) दिनस्यैकवारमेव (घृतस्य स्तोकम्-आश्नाम्) रेतसो मानव-बीजस्य-वीर्यस्य “रेतो वै घृतम्” [श० ९।३।३।४४] अल्पं भागं भुक्तवती भुञ्जे (तात्-एव-इदं तातृपाणा चरामि) तेनैवेदानीं तृप्यमाणा चरामि ॥१६॥

    इस भाष्य को एडिट करें
    Top