Loading...
ऋग्वेद मण्डल - 10 के सूक्त 95 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 17
    ऋषिः - पुरूरवा ऐळः देवता - उर्वशी छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः । उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥

    स्वर सहित पद पाठ

    अ॒न्त॒रि॒क्ष॒ऽप्राम् । रज॑सः । वि॒ऽमानी॑म् । उप॑ । शि॒क्षा॒मि॒ । उ॒र्वशी॑म् । वसि॑ष्ठः । उप॑ । त्वा॒ । रा॒तिः । सु॒ऽकृ॒तस्य॑ । तिष्ठा॑त् । नि । व॒र्त॒स्व॒ । हृद॑यम् । त॒प्य॒ते॒ । मे॒ ॥


    स्वर रहित मन्त्र

    अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः । उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥

    स्वर रहित पद पाठ

    अन्तरिक्षऽप्राम् । रजसः । विऽमानीम् । उप । शिक्षामि । उर्वशीम् । वसिष्ठः । उप । त्वा । रातिः । सुऽकृतस्य । तिष्ठात् । नि । वर्तस्व । हृदयम् । तप्यते । मे ॥ १०.९५.१७

    ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 17
    अष्टक » 8; अध्याय » 5; वर्ग » 4; मन्त्र » 2

    पदार्थः -
    (अन्तरिक्षप्राम्) आत्मनः पूरयित्रीम् “आत्मान्तरिक्षम्” [काठ० १६।२] (रजसः विमानीम्) रञ्जनात्मकस्य गृहस्थसुखस्य निर्मात्रीं (उर्वशीम्) बहुकमनीयां भार्यां (वसिष्ठः) त्वयि खल्वतिशयेन वसिताऽहं पतिः (उप शिक्षामि) उपददामि स्ववीर्यम् “शिक्षति दानकर्मा” (निघं० ३।२०) (सुकृतस्य रातिः) शुभकर्मणः संयमस्य यथावदाचरितस्य ब्रह्मचर्यस्य फलभूता दानक्रिया (त्वा-उप तिष्ठात्) त्वयि ‘सप्तम्यर्थे द्वितीया छान्दसी व्यत्ययेन’ उपतिष्ठेत् (नि वर्तस्व) मत्तो निवृत्ता भव (मे हृदयं तप्यते) मम हृदयं तप्यते पार्श्वे त्वत्स्थित्या, तस्मान्निवृत्ता भव ॥१७॥

    इस भाष्य को एडिट करें
    Top