Loading...

873 परिणाम मिले!

  • उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वत: ॥ - Rigveda/9/67/25
  • उभाभ्यां देव सवितः पवित्रेण सवेन च। अस्मान्पुनीहि चक्षसे ॥ - Atharvaveda/6/19/0/3
  • उभाभ्यान्देव सवितः पवित्रेण सवेन च । माम्पुनीहि विश्वतः ॥ - Yajurveda/19/43
  • उभावन्तौ समर्षसि वत्सः संमातराविव। नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥ - Atharvaveda/13/2/0/13
  • उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन्। उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै॥ - Rigveda/2/27/15
  • उभे चिदिन्द्र रोदसी महित्वाऽपप्राथ तविषीभिस्तुविष्मः। नि वज्रमिन्द्रो हरिवान्मिमिक्षन्त्समन्धसा मदेषु वा उवोच ॥४॥ - Rigveda/7/20/4
  • उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता । भगो नृशंस उर्व१न्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥ - Rigveda/9/81/5
  • उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानि: । वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम् ॥ - Rigveda/10/101/11
  • उभे नभसी उभयांश्च लोकान्ये यज्वनामभिजिताः स्वर्गाः। तेषां ज्योतिष्मान्मधुमान्यो अग्रे तस्मिन्पुत्रैर्जरसि सं श्रयेथाम् ॥ - Atharvaveda/12/3/0/6
  • उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः। अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥ - Rigveda/1/133/1
  • उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवै:। स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भि: ॥ - Rigveda/1/95/6
  • उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरव: । सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥ - Rigveda/7/96/2
  • उभे यदिन्द्र रोदसी आपप्राथोषा इव । महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ - Rigveda/10/134/1
  • उभे यदिन्द्र रोदसी आपप्राथोषा इव । महान्तं त्वा महीनाꣳ सम्राजं चर्षणीनाम् । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०९०॥ - Samveda/1090
  • उभे यदिन्द्र रोदसी आपप्राथोषा इव । महान्तं त्वा महीनाꣳ सम्राजं चर्षणीनाम् । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥३७९॥ - Samveda/379
  • उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि। उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ॥९॥ - Rigveda/5/6/9
  • उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीषऽआसनि । उतो नऽउत्पुपूर्याऽउक्थेषु शवसस्पत इषँ स्तोतृभ्यऽआ भर ॥ - Yajurveda/15/43
  • उभे सोमावचाकशन्मृगो न तक्तो अर्षसि । सीदन्नृतस्य योनिमा ॥ - Rigveda/9/32/4
  • उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च । उतान्तरिक्षे परि याहि राजञ्जम्भै: सं धेह्यभि यातुधानान् ॥ - Rigveda/10/87/3
  • उभोभयाविन्नुप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च। उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान् ॥ - Atharvaveda/8/3/0/3
  • उयं यकांशलोकका ॥ - Atharvaveda/20/130/0/20
  • उरुः कोशो वसुधानस्तवायं यस्मिन्निमा विश्वा भुवनान्यन्तः। स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्वघरुदो विकेश्यः ॥ - Atharvaveda/11/2/0/11
  • उरुं गभीरं जनुषाभ्यु१ग्रं विश्वव्यचसमवतं मतीनाम्। इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति॥ - Rigveda/3/46/4
  • उरु णस्तन्वे३ तन उरु क्षयाय नस्कृधि । उरु णो यन्धि जीवसे ॥ - Rigveda/8/68/12
  • उरु ते ज्रय: पर्येति बुध्नं विरोचमानं महिषस्य धाम। विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभि: पाह्यस्मान् ॥ - Rigveda/1/95/9
  • उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् । देववीतिं मनामहे ॥ - Rigveda/8/68/13
  • उरुं नो लोकमनु नेषि विद्वान्त्स्वर्वज्ज्योतिरभयं स्वस्ति। ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥८॥ - Rigveda/6/47/8
  • उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति। उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥ - Atharvaveda/19/15/0/4
  • उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥ - Atharvaveda/13/4/0/52
  • उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके। पितामहाः पितरः प्रजोपजाऽहं पक्ता पञ्चदशस्ते अस्मि ॥ - Atharvaveda/11/1/0/19
  • उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् । दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥ - Rigveda/7/99/4
  • उरु वां रथः परि नक्षति द्यामा यत्समुद्रादभि वर्तते वाम्। मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजन्त पक्वाः ॥५॥ - Rigveda/4/43/5
  • उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि । घृतङ्घृतयोने पिब प्रप्र यज्ञपतिन्तिर स्वाहा ॥ - Yajurveda/5/41
  • उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि घृतङ्घृतयोने पिब प्रप्र यज्ञपतिन्तिर स्वाहा ॥ - Yajurveda/5/38
  • उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ। अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित्॥ - Rigveda/1/24/8
  • उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरंधी । अपः सिषासन्नुषस: स्व१र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ - Rigveda/9/90/4
  • उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी । अपः सिषासन्नुषसः स्वऽ३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥१४१०॥ - Samveda/1410
  • उरुगूलाया दुहिता जाता दास्यसिक्न्या। प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥ - Atharvaveda/5/13/0/8
  • उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः। सुधृष्टमे वपुष्ये३ न रोदसी पिता यत्सीमभि रूपैरवासयत् ॥ - Rigveda/1/160/2
  • उरुव्यचसाग्नेर्धाम्ना पत्यमाने। आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥ - Atharvaveda/5/27/0/8
  • उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः । तस्य व्रतानि न मिनन्ति धीराः ॥१७९४॥ - Samveda/1794
  • उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः। तस्य व्रतानि न मिनन्ति धीराः ॥११॥ - Rigveda/7/31/11
  • उरुव्यचा नो महिषः शर्म यच्छत्वस्मिन्हवे पुरुहूतः पुरुक्षु। स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥ - Atharvaveda/5/3/0/8
  • उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः । स न: प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥ - Rigveda/10/128/8
  • उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः। द्राघिष्ठाभिः शुचिव्रता॥ - Rigveda/3/62/17
  • उरुशꣳसा नमोवृधा मह्ना दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रता ॥६६४॥ - Samveda/664
  • उरुष्या णो अभिशस्ते: सोम नि पाह्यंहसः। सखा सुशेव एधि नः ॥ - Rigveda/1/91/15
  • उरुष्या णो मा परा दा अघायते जातवेदः । दुराध्ये३ मर्ताय ॥ - Rigveda/8/71/7
  • उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥ - Rigveda/10/14/12
  • उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु। तावस्मभ्यंदृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥ - Atharvaveda/18/2/0/13
Top