Loading...

1116 परिणाम मिले!

  • विश्वो देवस्य नेतुर्मर्ता वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नँ वृणीत पुष्यसे स्वाहा ॥ - Yajurveda/4/8
  • विश्वो देवस्य नेतुर्मर्ता वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नँवृणीत पुष्यसे स्वाहा ॥ - Yajurveda/22/21
  • विश्वो देवस्य नेतुर्मर्ता वुरीत सख्यम् । विश्वो रायऽइषुध्यति द्युम्नँवृणीत पुष्यसे स्वाहा ॥ - Yajurveda/11/67
  • विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम्। विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥१॥ - Rigveda/5/50/1
  • विश्वो यस्य व्रते जनो दाधार धर्मणस्पते: । पुनानस्य प्रभूवसोः ॥ - Rigveda/9/35/6
  • विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत्। विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे। विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥ - Rigveda/1/128/6
  • विश्वो ह्य१न्यो अरिराजगाम ममेदह श्वशुरो ना जगाम । जक्षीयाद्धाना उत सोमं पपीयात्स्वाशित: पुनरस्तं जगायात् ॥ - Rigveda/10/28/1
  • विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः। परैणान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥ - Atharvaveda/8/3/0/16
  • विषं गवां यातुधाना: पिबन्त्वा वृश्च्यन्तामदितये दुरेवा: । परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥ - Rigveda/10/87/18
  • विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥ - Atharvaveda/12/5/0/31
  • विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्। न ब्राह्मणस्य गां जग्ध्वा राष्ट्रे जागार कश्चन ॥ - Atharvaveda/5/19/0/10
  • विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥ - Atharvaveda/8/10/6/4
  • विषाणा पाशान्वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये। दुष्वप्न्यं दुरितं निःष्वास्मदथ गच्छेम सुकृतस्य लोकम् ॥ - Atharvaveda/6/121/0/1
  • विषासहिंसहमानं सासहानं सहीयांसम्। सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्। ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् ॥ - Atharvaveda/17/1/0/4
  • विषासहिंसहमानं सासहानं सहीयांसम्। सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्। ईड्यं नाम ह्व इन्द्रं प्रियः प्रजानां भूयासम् ॥ - Atharvaveda/17/1/0/3
  • विषासहिंसहमानं सासहानं सहीयांसम्। सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्। ईड्यं नाम ह्व इन्द्रं प्रियः समानानां भूयासम् ॥ - Atharvaveda/17/1/0/5
  • विषासहिंसहमानं सासहानं सहीयांसम्। सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्। ईड्यं नाम ह्व इन्द्रं प्रियो देवानां भूयासम् ॥ - Atharvaveda/17/1/0/2
  • विषासहिंसहमानं सासहानं सहीयांसम्। सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्। ईड्यं नाम ह्व इन्द्रमायुष्मान्भूयासम् ॥ - Atharvaveda/17/1/0/1
  • विषासह्यै स्वाहा ॥ - Atharvaveda/19/23/0/27
  • विषितं ते वस्तिबिलं समुद्रस्योदधेरिव। एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥ - Atharvaveda/1/3/0/8
  • विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् । चक्षदे मित्रो वसुभि: सुजात: समानृधे पर्वभिर्वावृधानः ॥ - Rigveda/10/79/7
  • विषूच्येतु कृन्तती पिनाकमिव बिभ्रती। विष्वक्पुनर्भुवा मनो ऽसमृद्धा अघायवः ॥ - Atharvaveda/1/27/0/2
  • विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते । तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिण: ॥ - Rigveda/10/43/3
  • विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते। तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥ - Atharvaveda/20/17/0/3
  • विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि। अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥ - Atharvaveda/8/3/0/23
  • विषेण भङ्गुरावत: प्रति ष्म रक्षसो दह । अग्ने तिग्मेन शोचिषा तपुरग्राभिॠष्टिभि: ॥ - Rigveda/10/87/23
  • विष्टम्भो दिवो धरुण: पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय ॥ - Rigveda/9/89/6
  • विष्टारिणमोदनं ये पचन्ति नैनानवर्तिः सचते कदा चन। आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥ - Atharvaveda/4/34/0/3
  • विष्टारिणमोदनं ये पचन्ति नैनान्यमः परि मुष्णाति रेतः। रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥ - Atharvaveda/4/34/0/4
  • विष्ट्वी शमी तरणित्वेन वाघतो मर्तास: सन्तो अमृतत्वमानशुः। सौधन्वना ऋभव: सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभि: ॥ - Rigveda/1/110/4
  • विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन्। उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः॥ - Rigveda/3/54/14
  • विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् । आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥ - Rigveda/10/1/3
  • विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः। अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम्॥ - Rigveda/3/55/10
  • विष्णुर्युनक्तु बहुधा तपांस्यस्मिन्यज्ञे सुयुजः स्वाहा ॥ - Atharvaveda/5/26/0/7
  • विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ - Rigveda/10/184/1
  • विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु। आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ - Atharvaveda/5/25/0/5
  • विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥ - Yajurveda/6/4
  • विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥ - Yajurveda/13/33
  • विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥१६७१॥ - Samveda/1671
  • विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यः सखा ॥ - Atharvaveda/7/26/0/6
  • विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यः सखा॥ - Rigveda/1/22/19
  • विष्णोः क्रमो सि सपत्नहा गायत्रञ्छन्दऽआ रोह पृथिवीमनु विक्रमस्व । विष्णोः क्रमो स्यभिमातिहा त्रैष्टुभञ्छन्दऽआरोहान्तरिक्षमनु विक्रमस्व विष्णोः क्रमो स्यरातीयतो हन्ता जागतञ्छन्दऽआ रोह दिवमनु विक्रमस्व विष्णोः क्रमो सि शत्रूयतो हन्तानुष्टुभञ्छन्दऽआ रोह दिशोनु विक्रमस्व ॥ - Yajurveda/12/5
  • विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितः सामतेजाः। ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥ - Atharvaveda/10/5/0/30
  • विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः। कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥ - Atharvaveda/10/5/0/34
  • विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः। दिशोऽनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥ - Atharvaveda/10/5/0/28
  • विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः। दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जिवीत्तं प्राणो जहातु ॥ - Atharvaveda/10/5/0/27
  • विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः। पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥ - Atharvaveda/10/5/0/25
  • विष्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः। प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥ - Atharvaveda/10/5/0/35
  • विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः। यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥ - Atharvaveda/10/5/0/31
  • विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः। अन्तरिक्षमनु वि क्रमेऽहं अन्तरिक्षात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥ - Atharvaveda/10/5/0/26
Top