यजुर्वेद - अध्याय 4/ मन्त्र 25
ऋषिः - वत्स ऋषिः
देवता - सविता देवता
छन्दः - भूरिक् शक्वरी,भूरिक् गायत्री,
स्वरः - निषादः, षड्जः
28
अ॒भि त्यं दे॒वꣳ स॑वि॒तार॑मो॒ण्योः क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वꣳ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम्। ऊ॒र्ध्वा यस्या॒मति॒र्भाऽअदि॑द्यु॒त॒त् सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा स्वः॑। प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि॥२५॥
स्वर सहित पद पाठअ॒भि। त्यम्। दे॒वम्। स॒वि॒ता॑रम्। ओण्योः᳖। क॒विक्र॑तु॒मिति॑ क॒विऽक्र॑तु॒म्। अर्चा॑मि। स॒त्यस॑व॒मिति॑ स॒त्यऽस॑वम्। र॒त्न॒ऽधामिति॑ रत्न॒धाम्। अ॒भि। प्रि॒यम्। म॒तिम्। क॒विम्। ऊ॒र्ध्वा। यस्य॑। अ॒मतिः॑। भाः। अदि॑द्यु॒तत्। सवी॑मनि। हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। अ॒मि॒मी॒त॒। सु॒क्रतु॒रिति॑ सु॒ऽक्रतुः॑। कृ॒पा। स्व॒रिति॒ स्वः॑। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। त्वा॒। प्र॒जा इति॑ प्र॒ऽजाः। त्वा॒। अ॒नु॒प्राण॒न्त्वित्य॑नु॒ऽप्राण॑न्तु॒। प्र॒जा इति॑ प्र॒ऽजाः। त्वम्। अ॒नु॒ऽप्राणि॒हीत्य॑नु॒ऽप्राणि॑हि ॥२५॥
स्वर रहित मन्त्र
अभि त्यं देवँ सवितारमोण्योः कविक्रतुमर्चामि सत्यसवँ रत्नधामभि प्रियम्मतिङ्कविम् । ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः । प्रजाभ्यस्त्वा । प्रजास्त्वानुप्राणन्तु प्रजास्त्वमनुप्राणिहि ॥
स्वर रहित पद पाठ
अभि। त्यम्। देवम्। सवितारम्। ओण्योः। कविक्रतुमिति कविऽक्रतुम्। अर्चामि। सत्यसवमिति सत्यऽसवम्। रत्नऽधामिति रत्नधाम्। अभि। प्रियम्। मतिम्। कविम्। ऊर्ध्वा। यस्य। अमतिः। भाः। अदिद्युतत्। सवीमनि। हिरण्यपाणिरिति हिरण्यऽपाणिः। अमिमीत। सुक्रतुरिति सुऽक्रतुः। कृपा। स्वरिति स्वः। प्रजाभ्य इति प्रऽजाभ्यः। त्वा। प्रजा इति प्रऽजाः। त्वा। अनुप्राणन्त्वित्यनुऽप्राणन्तु। प्रजा इति प्रऽजाः। त्वम्। अनुऽप्राणिहीत्यनुऽप्राणिहि॥२५॥
भाष्य भाग
संस्कृत (2)
विषयः
पुनरीश्वरराजसभाप्रजागुणा उपदिश्यन्ते॥
अन्वयः
हे परमात्मन् सभाध्यक्ष प्रजापुरुष! वाऽहं यस्य सवीमन्यूर्ध्वामतिर्भा अदिद्युतत् कृपा स्वः सुखं करोति। यो हिरण्यपाणिः सुक्रतुः स्वरमिमीतादित्यं वा निर्मितवान्। त्यमोण्योः सवितारं कविक्रतुं रत्नधां प्रियं मतिं कविं देवं त्वा त्वां प्रजाभ्योऽभ्यर्चामि तं त्वां प्रजा अनुप्राणन्तु, कृपया त्वं प्रजा अनुप्राणिहि॥२५॥
पदार्थः
(अभि) आभिमुख्ये (त्यम्) जगदीश्वरं राजसभास्थजनसमूहं वा (देवम्) सुखदातारम् (सवितारम्) देवानामग्न्यादीनां रसानां वा प्रसवितारम् (ओण्योः) द्यावापृथिव्योः। ओण्योरिति द्यावापृथिवीनामसु पठितम्। (निघं॰३.३०) (कविक्रतुम्) कविः सर्वज्ञा सकलविद्यायुक्ता क्रतुः प्रज्ञा कर्म क्रमदर्शनं वा यस्य तम्। कविः क्रान्तदर्शनो भवति कवतेर्वा। (निरु॰१२.१३) (अर्चामि) पूजयामि (सत्यसवम्) सत्यं सव ऐश्वर्य्यं जगद्वा यस्मिन् यस्य वा तम् (रत्नधाम्) यो रत्नानि रमणीयानि विज्ञानानि हीरकादीनि भुवनानि वा दधातीति तम् (अभि) आभिमुख्ये (प्रियम्) यः प्रीणाति तम् (मतिम्) यो वेदादिशास्त्रैर्विद्वद्भिश्च मन्यते तम् (कविम्) वेदविद्याया उपदेष्टारं निमित्तं वा (ऊर्ध्वा) उत्कृष्टा (यस्य) सच्चिदानन्दस्वरूपस्य शुभगुणयुक्तस्य वा (अमतिः) रूपम्। अमतिरिति रूपनामसु पठितम्। (निघं॰३.७) (भा) यो भाति प्रकाशते सः (अदिद्युतत्) प्रकाशितवान्, प्रकाशयति वा (सवीमनि) यः सूयते संसारस्तस्मिन् (हिरण्यपाणिः) हिरण्यानि ज्योतींषि सूर्य्यादीनि सुवर्णादीनि वा पाणौ व्यवहारे यस्य सः। ज्योतिर्हि हिरण्यम्। (शत॰४.३.४.२१) इति प्रमाणेन हिरण्यशब्देन ज्योतिषो ग्रहणम् (अमिमीत) निर्मितवान् निर्मिमीते वा (सुक्रतुः) शोभनः क्रतुः प्रज्ञा कर्म वा यस्य स (कृपा) करुणा (स्वः) सुखमादित्यं वा। स्वरादित्यो भवति स एनानि सारयति। (निरु॰५.४) (प्रजाभ्यः) उत्पन्नाभ्यः सृष्टिभ्यः (त्वा) त्वाम् (प्रजाः) मनुष्यादिसृष्टयः (त्वा) त्वाम् (अनुप्राणन्तु) आयुर्भुञ्जताम् (प्रजाः) जगत्स्थाः (त्वम्) अयं वा (अनुप्राणिहि) जीवतोऽनुजीवनं धर धरति वा। अयं मन्त्रः (शत॰३.३.२.१२-१९) व्याख्यातः॥२५॥
भावार्थः
अत्र श्लेषालङ्कारः। मनुष्यैः सर्वजगत्स्रष्टुर्निराकारस्य व्यापिनः सर्वशक्तिमतः सच्चिदानन्दादिलक्षणस्य परमेश्वरस्य प्रजापालनतत्परस्य सभापतेर्धार्मिकस्य वैवार्चा नित्यं कर्त्तव्या, नातो भिन्नस्य कस्यचित्। विद्वद्भिः प्रजास्थानां सुखायैतेषां स्तुतिप्रार्थनोपदेशा नित्यं कार्य्याः। यतः सर्वा प्रजास्तदाज्ञानुकूलाः सदा वर्त्तेरन्। यथा प्राणे सर्वेषां जीवानां प्रीतिरस्ति, तथा परमात्मादिष्वपि कार्य्येति॥२५॥
विषयः
पुनरीश्वरराजसभाप्रजागुणा उपदिश्यन्ते ॥
सपदार्थान्वयः
हे परमात्मन् ! अहं यस्य सच्चिदानन्दस्वरूपस्य सवीमनि यः सूयते संसारस्तस्मिन् उद्धर्वा उत्कृष्टा अमतिः रूपं भाः यो भाति=प्रकाशते स अदिद्युतत् प्रकाशितवान् कृपा करुणा स्वः=सुखम् आदित्यं करोति। यो हिरण्यपाणिः हिरण्यानि=ज्योतींषि सूर्यादीनि पाणौ=व्यवहारे यस्य स सक्रतुः शोभन: क्रतुः=प्रज्ञा कर्म वा यस्य स स्वरमिमीत=आदित्यं निर्मितवान्। त्यं=यं जगदीश्वरं ओण्योः द्यावापृथिव्योः सवितारं देवानामग्न्यादीनां प्रसवितारंकविक्रतुं कविः=सर्वज्ञा सर्वविद्यायुक्ता प्रज्ञा यस्य तं [सत्यसवसम्] सत्यं सव: ऐश्वर्यं जगद्वा यस्मिन् रत्नधां यो रत्नानि=रमणीयानि विज्ञानानि भुवनानि वा दधातीति तं प्रियं यः प्रीणाति तं मतिं यो वेदादिशास्त्रैर्विद्वद्भिश्च मन्यते तं कविं वेदविद्याया निमित्तं देवं सुखदातारं त्वा त्वां प्रजाभ्यः उत्पन्नाभ्यः सृष्टिभ्यः अभ्यर्चामि अभिमुखं पूजयामि । [त्वा]=तं त्वां प्रजाः मनुष्यादिसृष्टयः अनुप्राणन्तु आयुर्भुञ्जताम्,कृपया त्वं प्रजाः जगत्स्था: अनुप्राणिहि जीवतोऽनुजीवनं धर ।। [सभाध्यक्ष:] हे सभाध्यक्षराजपुरुष ! अहं यस्य शुभगुणयुक्तस्य सवीमनि यः सूयते संसारस्तस्मित् उर्ध्वा उत्कृष्टा अमतिः रूपं भाः यो भाति=प्रकाशते स अदिद्युतत् प्रकाशयति कृपा करुणा स्वः=सुखं करोति। यो हिरण्यपाणिः हिरण्यानि=सुवर्णादीनि पाणौ=व्यवहारे यस्य स सुक्रतुः शोभनः क्रतुः=प्रज्ञा कर्म वा यस्य स स्वः सुखं अमिमीत निर्मिमीते। त्यं=यं राजसभास्थजनसमूहं ओण्योः द्यावापृथिव्योः सवितारं रसानां प्रसवितारं कविक्रतुं कविः=सर्वविद्यायुक्ता क्रतुः=प्रज्ञा कर्म क्रमदर्शनं यस्य तं [सत्यसवसम्] सत्यं सवः=ऐश्वर्यं यस्य रत्नधां यो रत्नानि=रमणीयानि विज्ञानानि हीरकादीनि दधातीति तं प्रियं यः प्रीणाति तं मतिंयो विवद्भिर्मन्यते तं कविंवेदविद्याया उपदेष्टारंत्वा त्वां प्रजाभ्यः उत्पन्नाभ्यः सृष्टिभ्य, अभ्यर्चामि अभिमुखं पूजयामि। [त्वा]=तं प्रजाः मनुष्यादिसृष्टयः अनुप्राणन्तु आयुर्भुञ्जताम्, कृपया त्वम् अयं प्रजाः जगत्स्थाः अनुप्राणिहि जीवतोऽनुजीवनं धरति ।। ४ । २५ ।। [हे परमात्मन्! अहं......यो.....स्वरमिमीत=अदित्यं निर्मितवान्, त्यं=यमोण्योः सवितारं--देवं त्वा प्रजाभ्योऽभ्यर्चामि]
पदार्थः
(अभि) आभिमुख्ये (त्यम्) जगदीश्वरं राजसभास्थजनसमूहं वा (देवम्) सुखदातारम् (सवितारम्) देवानामग्न्यादीनां रसानां वा प्रसवितारम् (ओण्योः) द्यावापृथिव्योः। ओण्योरिति द्यावापृथिवीनामसु पठितम्॥ निघं० ३ ।३० ॥ (कविक्रतुम्) कविः=सर्वज्ञा सकलविद्या युक्ता क्रतु:¬=प्रज्ञा कर्म क्रमदर्शनं व यस्य तम् । कवि क्रान्तदर्शनो भवति कवतेर्वा।।निरु०१२ । १३ ।। (अर्चामि) पूज्यामि (सत्यसवम्) सत्यं सव=ऐश्वर्य्यं जगद्वा यस्मिन्यस्य वा तम् (रत्नधाम्) यो रत्नानि=रमणीयानि विज्ञानानि हीरकादीनि भुवनानि वा दधातीति तम् (अभि) आभिमुख्ये (प्रियम्) यः प्रीणाति तम् (मतिम्) यो वेदादिशास्त्रैर्विद्वद्भिश्च मन्यते तम् (कविम्) वेदविद्याया उपदेष्टारं निमित्तं वा (उर्ध्वा) उत्कृष्टा (यस्य) सच्चिदानन्दस्वरूपस्य शुभगुणयुक्तस्य वा (अमतिः) रूपम्। अमतिरिति रूपनामसुपठितम् ॥ निघं० ३ ।७ ॥ (भा) योभाति प्रकाशते सः (अदिद्युतत्) प्रकाशितवान्। प्रकाशयति वा (सवीमनि) यः सूयते संसारस्तस्मिन् (हिरण्यपाणिः) हिरण्यानि =ज्योतींषि सूर्य्यादीनि सुवर्णादीनि वा पाणौ व्यवहारे यस्य सः । ज्योतिर्हि हिरण्यम् ॥श० ४ ।३ ।४ ।२१॥इति प्रमाणेन हिरण्यशब्देन ज्योतिषो ग्रहणम् (अमिमीत) निर्मितवान् निर्मिमीते वा (सुक्रतुः) शोभनः क्रतुः=प्रज्ञा कर्म वा यस्य सः (कृपा) करुणा (स्व:) सुखमादित्यं वा। स्वरादित्यो भवति स एतानि सारयति । निरु० ५ । ४॥ (प्रजाभ्यः) उत्पन्नाभ्यः सृष्टिभ्यः (त्वा) त्वाम् (प्रजाः) मनुष्यादिसृष्टयः (त्वा) त्वाम् (अनुप्राणन्तु) आयुर्भुज्जताम् (प्रजाः) जगत्स्था: (त्वम्) अयं वा (अनुप्राणिहि) जीवतोऽनुजीवनं धर धरति वा । अयं मन्त्रः श० ३ ।३ ।२ ।१२-१९ व्याख्यातः ॥ २५ ॥ [ईश्वरः]
भावार्थः
अत्र श्लेषालङ्कारः॥ मनुष्यैः सर्वजगत्स्रष्टुर्निराकारस्य व्यापिनः सर्वशक्तिमत: सच्चिदानन्दादिलक्षणस्य परमेश्वरस्य, प्रजापालनतत्परस्य सभापतेर्धार्मिकस्य त्वैवार्चा नित्यं कर्त्तव्या, नातो भिन्नस्य कस्यचित्।। ४ । २५ ।। [[त्वा]=तं प्रजा अनुप्राणन्तु कृपया त्वं प्रजा अनुप्राणिहि] विद्वद्भिः प्रजास्थानां सुखायैतेषां स्तुतिप्रार्थनोपदेशा नित्यं कार्या:। यतः सर्वाः प्रजास्तदाज्ञानुकूलाः सदा वर्त्तेरन्। यथा प्राणे सर्वेषां जीवानां प्रीतिरस्ति तथा परमात्मादिष्वपि कार्येति।। ४ । २५ ।।
विशेषः
वत्सः।सविता=परमेश्वरः, सभाध्यक्षः । पूर्वस्य भुरिक् शक्वरी । निषादः । सुक्रतुरित्युत्तरस्य भृरिगार्षी गायत्री । षड्जः ॥
हिन्दी (4)
विषय
फिर अगले मन्त्र में ईश्वर, राजसभा और प्रजा के गुणों का उपदेश किया है॥
पदार्थ
मैं (यस्य) जिस सच्चिदानन्दादिलक्षणयुक्त परमेश्वर, धार्मिक सभापति और प्रजाजन के (सवीमनि) उत्पन्न हुए संसार में (ऊर्ध्वा) उत्तम (अमतिः) स्वरूप (भाः) प्रकाशमान (अदिद्युतत्) प्रकाशित हुआ है। जिसकी (कृपा) करुणा (स्वः) सुख को करती है, (हिरण्यपाणिः) जिसने सूर्य्यादि ज्योति व्यवहार में उत्तम गुण कर्मों को युक्त किया हो, (सुक्रतुः) जिस उत्तम प्रज्ञा वा कर्मयुक्त ईश्वर, सभा-स्वामी और प्रजाजन ने (स्वः) सूर्य्य और सुख को (अमिमीत) स्थापित किया हो (त्यम्) उस (ओण्योः) द्यावापृथिवी वा (सवितारम्) अग्नि आदि को उत्पन्न और संप्रयोग करने तथा (कविक्रतुम्) सर्वज्ञ वा क्रान्तदर्शन (रत्नधाम्) रमणीय रत्नों को धारण करने (सत्यसवम्) सत्य ऐश्वर्य्ययुक्त (प्रियम्) प्रीतिकारक (मतिम्) वेदादि शास्त्र वा विद्वानों के मानने योग्य (कविम्) वेदविद्या का उपदेश करने तथा (देवम्) सुख देने वाले परमेश्वर, सभाध्यक्ष और प्रजाजन का (अर्चामि) पूजन करता हूं वा जिस (त्वा) आपको (प्रजाभ्यः) उत्पन्न हुई सृष्टि से पूजित करता हूं। उस आप की सृष्टि में (प्रजाः) मनुष्य आदि (अनुप्राणन्तु) आयु का भोग करें (त्वम्) और आप कृपा करके (प्रजाः) प्रजा के ऊपर जीवों के अनुकूल (अनुप्राणिहि) अनुग्रह कीजिये॥२५॥
भावार्थ
इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को सब जगत् के उत्पन्न करने वाले निराकर, सर्वव्यापी, सर्वशक्तिमान्, सच्चिदानन्दादि लक्षणयुक्त परमेश्वर, धार्मिक सभापति और प्रजाजन समूह ही का सत्कार करना चाहिये, उनसे भिन्न और किसी का नहीं। विद्वान् मनुष्यों को योग्य है कि प्रजा-पुरुषों के सुख के लिये इस परमेश्वर की स्तुति प्रार्थनोपासना और श्रेष्ठ सभापति तथा धार्मिक प्रजाजन के सत्कार का उपदेश नित्य करें, जिससे सब मनुष्य उनकी आज्ञा के अनुकूल सदा वर्त्तते रहें और जैसे प्राण में सब जीवों की प्रीति होती है, वैसे पूर्वोक्त परमेश्वर आदि में भी अत्यन्त प्रेम करें॥२५॥
विषय
ज्ञानपुष्पों से प्रभु का अर्चन
पदार्थ
१. गत मन्त्र में ज्ञानपुष्पों के चयन का उल्लेख था। उन ज्ञानपुष्पों का चयन करके प्रस्तुत मन्त्र में उन पुष्पों द्वारा प्रभु के अर्चन का उल्लेख करते हैं। इन ज्ञानपुष्पों का अवचयन करके मैं ( त्यम् ) = उस ( देवम् ) = ज्ञान की दीप्तिवाले ( सवितारम् ) = सबके प्रेरक परमात्मा की ( अभि ) = ओर जाता हूँ और ( ओण्योः ) = द्यावापृथिवी के इस [ ओणृ अपनयने, द्यौष्पिता पृथिवी माता, ये द्युलोकरूपी माता-पिता हमारे कष्टों का अपनयन करते हैं ] ( कविक्रतुम् ) = ज्ञानी निर्माता [ creator ] को ( अर्चामि ) = पूजता हूँ। वे प्रभु इस संसार का निर्माण करनेवाले हैं और इसके निर्माण में एक-एक पिण्ड में प्रभु की प्रज्ञा का प्रकाश हो रहा है। प्रत्येक पदार्थ की रचना अपने में पूर्ण है ‘पूर्णमदः, पूर्णमिदम्’। इस संसार का निर्माण प्रभु की सर्वज्ञता का प्रमाण है।
२. मैं उस प्रभु की अर्चना करता हूँ जोकि ( सत्यसवम् ) = सदा सत्य की प्रेरणा देनेवाले हैं। ( रत्नधाम् ) = हममें उत्तमोत्तम रत्नों = रमणीय रुधिर आदि धातुओं का धारण करनेवाले हैं, ( अभिप्रियम् ) = सबके प्रति प्रेमवाले हैं। ( मतिम् ) = सर्वज्ञ हैं ( कविम् ) = क्रान्तदर्शी हैं व सृष्टि-आरम्भ में सब विद्याओं का ज्ञान देनेवाले हैं [ कौति सर्वा विद्याः ]
३. ( यस्य ) = जिस प्रभु की ( अमतिः ) = न मापने योग्य [ Immeasureable ] ( भा ) = दीप्ति ( ऊर्ध्वा ) = सर्वोत्कृष्ट होती हुई ( अदिद्युतत् ) = दीप्त हो रही है। संसार में एक-से-एक बढ़कर ज्ञानी विद्यमान हैं, यह ज्ञान का तारतम्य प्रभु में आकर विश्रान्त हो जाता है, उनसे अधिक ज्ञान का सम्भव ही नहीं, अतः वह ऊर्ध्वा = सर्वोत्कृष्ट ज्ञानदीप्ति सर्वत्र द्योतित हो रही है।
४. ( सवीमनि ) = इस उत्पन्न जगत् में ( हिरण्यपाणिः ) = [ हिरण्यं वीर्यम् ] शक्तिशाली हाथोंवाला वह ( सुक्रतुः ) = सर्वोत्तम कर्त्ता [ creator ] ( कृपा ) = अपने सामर्थ्य से अथवा प्राणिमात्र पर दया से ( स्व ) = इस देदीप्यमान सूर्य का ( अमिमीत ) = निर्माण करता है। ‘प्राणः प्रजानामुदयत्येष सूर्यः’ = यह सूर्य प्रजाओं का प्राण ही तो है।
५. प्रभु इस सूर्य से कहते हैं कि ( प्रजाभ्यः त्वा ) = इन प्रजाओं के हित के लिए मैंने तुझे बनाया है। ( प्रजाः ) = सब प्रजाएँ ( त्वा अनुप्राणन्तु ) = तेरी अनुकूलता में प्राणशक्ति को धारण करें। ( त्वम् ) = तू ( प्रजाः अनुप्राणिहि ) = प्रजाओं को प्राणशक्ति से सञ्चरित कर दे। तू उनमें प्राणशक्ति फूँक दे। संसार में यह सूर्य प्रभु की अद्भुत रचना है। ३३ देवों का यही मुखिया है। इसकी रचना का अध्ययन हमें प्रभु की विभूति का दर्शन कराता है। हम इस विभूति-दर्शन से प्रभु का दर्शन करने में समर्थ होते हैं और प्रभु के प्रिय बन पाते हैं—‘वत्स’ हो जाते हैं।
भावार्थ
भावार्थ — हम ज्ञान-प्राप्ति द्वारा प्रभु की उपासना करें।
विषय
ईश्वर की स्तुति। राजा के प्रजा के प्रति कर्तव्य ।
भावार्थ
( त्यम् ) उस (ओण्योः सवितारम् ) द्यौ और पृथिवी के उत्पादक ( सत्यसवम् ) सवरुप से व्यक्त जगत् के उत्पादक या सत्यज्ञान के प्रदाता ( कविक्रतुम् ) क्रान्तदर्शी, सर्वोपरि ज्ञान से युक्त ( रत्नधाम् ) सूर्य आदि समस्त रमणीय पदार्थों के धारक (मतिं ) ज्ञानरूप (अभिप्रियम् ) सर्वप्रिय, ( कविम् ) क्रान्तदर्शी, मेधावी, (देवम् ) देव- परमेश्वर की ( अभि- अर्चामि ) स्तुति करता हूं ( यस्य ) जिसका ( अमति: ) परमरूप ( मा ) तेजोमय (ऊर्ध्वाः ) सब से ऊपर ( अदिधुतम् ) प्रकाश करती है औरजो ( सवीमनि ) उत्पन्न होने वाले संसार में ( हिरण्यपाणिः ) तेजोमय, अति रमणीय, कार्य कुशल हाथों वाला होकर समस्त पदार्थों को ( अमिमीत ) बनाता है और जो ( सुक्रतुः ) सब से उत्तम प्रज्ञावान् और शिल्पी है और जिसकी (कृपा) सर्वोच्च शक्ति या कृपा ( स्वः ) सबकी प्रेरक और तापक या जिसकी कृपा ही परम मोक्षमय सुखमय है। हे परमेश्वर (त्वा) तुझे ( प्रजाभ्यः ) समस्त प्रजाओं के लिये उपास्य बतलाता हूं । (त्या प्रजा अनुप्राणन्तु ) समस्त प्रजाएं तेरी शक्ति से नित्य प्राणधारण करें और (त्वं ) तू ( प्रजाः ) समस्त जीव प्रजाओं को अपनी शक्ति से ( अनुप्रारितहि ) प्राण धारण करा ॥
राजा के पक्ष में- ( ओण्योः सवितारं त्वं देव कविक्रतुम् ) राजाओं या शासकों और जासूमों अथवा पुरुष स्त्री दोनों के संसारों के प्रेरक प्रज्ञावान् मेधावी, सत्य न्याय का प्रदाता, रमणी गुणों के धारक, प्रिय मननशील क्रान्तदर्शी राजा को, हम पूजा या आदर करें जिसकी ( अमतिर्माः ) अगम्य कान्ति सब से ऊपर विराजती है और जो सुवर्णादि धन परवश करके सदाचारी होकर सुखमय राज्य बनाने में समर्थ है। हे पुरुष (त्वा प्रजाम्यः ) तुझे प्रजाओं के हित के लिये हम राजा नियुक्त करते हैं । ( त्वा प्रजा अजनु प्राणन्तु ) तेरे आधार पर प्रजाएं जीवित रहें। ( प्रजाः त्वम् अनुप्राणिहि ) प्रजा की वृद्धि पर तू भी अपना जीवन धारण कर ॥ शत० ३ । ३ । २ । ११ – १९ ।।
टिप्पणी
१ अभि त्यं। २ सुक्रतुः। १. 'शुकस्ते गृह्यः' इति दयानन्दसम्मतः पाठः। `ग्रहः` इति शत० अन्यत्र च सर्वत्राभिमतः ॥
ऋषि | देवता | छन्द | स्वर
सविता सोमश्च देते । ब्राह्मी जगती । निषादः स्वरः निचृदार्षी गायत्री ।
षड्ज., स्वरः ॥
विषय
फिर ईश्वर, राजसभा और प्रजा के गुणों का उपदेश किया है ।।
भाषार्थ
हे परमात्मन् ! मैं-- (यस्य) जिस सच्चिदानन्दस्वरूप परमेश्वर के (सवीमनि) उत्पन्न हुये संसार में (उद्धर्वा) उत्तम (अमतिः) रूप और (भा:) प्रकाश (अदिद्युतत्) प्रकाशित है, और जिसकी (कृपा) करुणा (स्व:) सुख एवं आदित्य को उत्पन्न करती है, और-- जो (हिरण्यपाणिः) ज्योतिर्मय सूर्य आदि को अपने वश में रखने वाला (सुक्रतुः) उत्तम प्रज्ञा और कर्म वाला है उसने (स्व:) आदित्य को (अमिमीत) बनाया है। (त्यम्) जिस (ओण्योः) द्युलोक और पृथिवी लोक के (सवितारम्) तथा अग्नि आदि देवों के उत्पन्न करने वाले (कविक्रतुम्) सर्वज्ञ, सब विद्या से युक्त बुद्धि वाले [सत्यसवसम्] सच्चे ऐश्वर्य और जगत् वाले (रत्नधाम्) रमणीय विज्ञान और लोकों को धारण करने वाले (प्रियम्) सबके प्रिय (मतिम्) वेदादिशास्त्रों और विद्वानों के द्वारा माने हुए (कविम्) वेदविद्या को उत्पन्न करने वाले (देवम्) सुखदायक (त्वा) तुझ जगदीश्वर की (प्रजाभ्यः) उत्पन्न सृष्टि के लिए (अभ्यर्चामि) प्रत्यक्ष पूजा करता हूँ। [त्वा] उक्त गुणों से युक्त आपकी कृपा से (प्रजाः) मनुष्य आदि सृष्टि (अनुप्राणन्तु) आयु को भोगे तथा कृपया आप (प्रजाः) सब प्राणियों को (अनुप्राणिहि) जीवन प्रदान कीजिए । हे सभाध्यक्ष राजपुरुष ! मैं--(यस्य) जिस शुभ गुणों से युक्त आपके (सवीमनि) उत्पन्न राज्य रूप संसार में (उर्द्धवा) जो उत्तम (अमतिः) रूप (भाः) प्रकाश (अदिद्युतत्) चमक रहा है और आपकी (कृपा) करुणा (स्वः) सुख को पैदा करती है। और-- जो (हिरण्यपाणिः) हिरण्य अर्थात् स्वर्ण आदि को अपने व्यवहार में रखने वाले तथा (सुक्रतुः) उत्तम प्रज्ञा और कर्म वाले आपने (स्व:) सुख को (अमिमीत) अपने राज्य में उत्पन्न किया है। (त्यम्) राजसभा में विराजमान जनसमूह वाले (ओण्योः) द्यावा पृथिवी में (सवितारम्) रसों को उत्पन्न करने वाले (कविक्रतुम्) सब विद्याओं से युक्त बुद्धि वाले तथा क्रम के ज्ञाता [सत्यसवसम्] सच्चे ऐश्वर्य वाले (रत्नधाम्) रमणीय विज्ञान तथा हीरे आदि को धारण करने वाले (प्रियम्) सबसे प्रेम करने वाले (मतिम्) विद्वानों के द्वारा मान करने योग्य (कविम्) वेदविद्या के उपदेष्टा (त्वाम्) आप सभाध्यक्ष का (प्रजाभ्यः) उत्पन्न सृष्टि के लिये (अभ्यर्चामि) सबके सामने सत्कार करता हूँ। [त्वा] उक्त गुणों से युक्त आपके राज्य में (प्रजाः) मनुष्य आदि सृष्टि (अनुप्राणन्तु) आयु को भोगे तथा कृपा करके (त्वम्) आप (प्रजाः) प्राणियों के (अनुप्राणिहि) जीवन को समर्थ बनावें ।। ४ । २५ ।।
भावार्थ
इस मन्त्र में श्लेष अलङ्कार है।। सब मनुष्य सब जगत् के स्रष्टा, निराकार, सर्वव्यापक, सर्वशक्तिमान्, सच्चिदानन्द परमेश्वर की तथा प्रजापालन में तत्पर धार्मिक सभापति की पूजा एवं सत्कार नित्य करें, इनसे भिन्न किसी का नहीं। सब विद्वान् प्रजा के प्राणियों के सुख के लिये स्तुति, प्रार्थना और उपदेश नित्य करें, जिससे सब प्रजा उनकी आज्ञा के अनुकूल सदा रहे। जैसे प्राणों की रक्षा में सब जीवों की प्रीति है वैसे परमात्मा और सभापति में भी प्रीति रखें ।। ४ । २५।।
प्रमाणार्थ
(ओण्योः) यह शब्द निघं० (३ । ३०) में द्यावा-पृथिवी के नामों में पढ़ा है। (कविक्रतुम्) निरु० (१२ । १३) में 'कवि' शब्द की निरुक्ति इस प्रकार है--'कवि क्रान्त-दर्शी होता है', अथवा 'कु' धातु से कवि शब्द बनता है। (अमतिः) यह शब्द निघं० (३ । ७) में रूप-नामों में पढ़ा है। (हिरण्यपाणिः) शत० (४ । ३ । ४ । २१) के अनुसार 'हिरण्य' का अर्थ ज्योति है। इस प्रमाण से 'हिरण्य' शब्द से यहाँ ज्योति अर्थ ग्रहण किया है। (स्व:) निरु० (५ । ४) में 'स्वः' शब्द का अर्थ आदित्य है क्योंकि यह सब भूतों को गति कराता है। इस मन्त्र की व्याख्या शत० (३ । ३ । २ । १२-१९) में की गई है ।। ४ । २५ ।।
भाष्यसार
१. ईश्वर के गुण--परमात्मा सच्चिदानन्दस्वरूप, सब जगत् का स्रष्टा, निराकार, प्रकाशस्वरूप है। जिसने सुख रूप मोक्ष को तथा सूर्य आदि को भी बनाया है, ज्योतिर्मय सूर्य आदि उसके हाथ में हैं, उसके वश में हैं, ये उसके आदेशानुसार व्यवहार करते हैं, उसकी प्रज्ञा और कर्म सबसे उत्तम हैं। द्युलोक और पृथिवी लोक तथा अग्नि आदि देवों का निर्माता वही है, वह सबको जानने वाली सब विद्या से भरपूर बुद्धि से युक्त है। सब ऐश्वर्य और सब जगत् उसी के अन्दर समाया हुआ है। वह रमणीय विज्ञान और लोकों को धारण करने वाला, सर्वप्रिय, वेदादिशास्त्रों तथा विद्वानों के द्वारा माना हुआ, वेदविद्या का विधाता और सब सुखों का दाता है । इसलिये ईश्वर सब प्रजा के लिए पूजा के योग्य है। २. सभाध्यक्ष के गुण--सभाध्यक्ष राजपुरुष संसार में सब शुभ गुणों से युक्त होता है अर्थात् उत्कृष्ट रूप वाला, विद्यादि गुणों से प्रकाशित तथा करुणादि गुणों के कारण राज्य में सब सुख उत्पन्न करता है। वह सुवर्ण आदि को अपने हाथ में रखता है, अपने वश में रखता है, उससे व्यवहार करता है। वह उत्तम प्रज्ञा और उत्तम कर्म वाला होता है । उसकी राजसभा में जनसमूह उपस्थित होता है। वह द्युलोक और पृथिवी लोक में यज्ञों के अनुष्ठान से रसों को उत्पन्न करता है, उसकी प्रज्ञा सब विद्याओं से युक्त होती है तथा वह कर्त्तव्य कर्म के क्रम (पूर्वापर) का द्रष्टा (ज्ञाता) होता है, वह रमणीय विज्ञान और हीरे जवाहरात आदि को धारण करने वाला, सबको प्रसन्न करने वाला, विद्वानों के द्वारा मान के योग्य तथा वेदविद्या का उपदेष्टा होता है। सब प्रजाजन ऐसे सभाध्यक्ष का सबके समक्ष अर्चन करें, सत्कार करें । ३. प्रजा के गुण-मन्त्र में उपदिष्ट गुणों वाले ईश्वर और सभाध्यक्ष का सब प्रजा प्रत्यक्ष रूप में पूजन करे, सत्कार करे। ईश्वर और सभाध्यक्ष के आश्रय से प्रजा आयु का उपभोग करे। प्रजा ईश्वर की आज्ञा का पालन करे तथा सभाध्यक्ष के अनुकूल रहे। जैसे प्रजा प्राणों में प्रीति रखती है, उनकी रक्षा करती है, इसी प्रकार परमात्मा में भी प्रीति रखे। सभाध्यक्ष में भी प्रीति रखे ।। ४ । २५ ।।
मराठी (2)
भावार्थ
या मंत्रात श्लेषालंकार आहे. माणसांनी सर्व जग उत्पन्न करणाऱ्या निराकार, सर्वव्यापी, सर्वशक्तिमान, सच्चिदानंदस्वरूप परमेश्वर व धार्मिक राजा आणि प्रजा यांच्याबद्दल आदर बाळगावा व सत्कार करावा. इतरांचा नाही. विद्वान माणसांनी प्रजेच्या सुखासाठी परमेश्वराची स्तुती, प्रार्थना व उपासना आणि श्रेष्ठ राजा व धार्मिक प्रजा यांच्याबद्दल आदर बाळगून त्यांचा सत्कार करण्याचा उपदेश नेहमी करावा. त्यामुळे सर्व माणसे त्यांच्या आज्ञेनुसार वागतील व प्राण जसे सर्वांना प्रिय वाटतात तसेच परमेश्वराबद्दलही प्रेम वाटावे.
विषय
पुढच्या मंत्रात ईश्वर, राजसभा व प्रजेच्या गुणांविषयी कथन केले आहे -
शब्दार्थ
शब्दार्थ -(यस्य) मी सच्चिदान्द गुणयुक्त परमेश्वराची स्तुती व उपासना करतो तसेच धार्मिक सभापतीचे व त्यांच्या प्रजाजनांचे पूजन म्हणजे सत्कार करतो, (सवीमनि) या संसारात त्यांचे (उर्द्वा) उत्तम (अमतिः) स्वरूप म्हणजे उत्तम यश(भाः) प्रकाशमान (आदिद्युतत्) होऊन चमकत आहे. त्यांची (कृपा) करूणा (स्वः) सुखदायक असते (हिरण्यापाणिः) परमेश्वराने सूर्य आदी ज्योतिर्मय पदार्थाना उत्पन्न केले आहे, सभापतीने सांसारिक व्यवहारामधे उत्तम गुणकर्मांचे पालन व रक्षण केले आहे तसेच प्रजाजनांनी उत्तम गुणांना धारण केलेले आहे (सुक्रतुः) ईश्वर, सभापती आणि प्रजानन सर्व उत्तम प्रज्ञा धारण करणारे व उत्तम कर्म करणारे आहेत, (स्वः) परमेश्वराने सूर्याची उत्पत्ती व सभापतीनी सुखाची (अमिष्टिमीत) निर्मिती वा व्यवस्था केली आहे. (त्यम्) त्या परमेश्वराने (ओण्योः) द्युलोक आणि पृथ्वी लोकांना तसेच (सवितारम्) असी आदी पदार्थांना उत्पन्न व संप्रयुक्त केले आहे (कविक्रतुम्) तो सर्वंज्ञ व क्रांतदर्शी आहे (रत्नाघाम्) रमणीय मननीय ज्ञानरूप रत्नांचा दाता आहे (सत्यसवभ्) सत्य आहे व सर्व ऐश्वर्यानी मुक्त आहे. (प्रियम्) प्रितीकारक (मतिम्) वेदादी शास्त्रांचा प्रदाता व विद्वानांसाठी माननीय (कविम्) वेद विद्येचा उपदेश करणार्या (देवम्) अशा सुखदायक परमेश्वराची मी (अर्चामि) पूजा वा अर्चना करता (सभापती व प्रजाजन देखील मना प्रिय, माननीय व सुख दायक आहेत, मी त्यांचेही पूजन वा सत्कार करतो, कारण ते सत्कारास पात्र आहेत) हे परमेश्वरा (त्वा) तुला (प्रजाभ्य) तू उत्पन्न केलेल्या सृष्टीद्वारे म्हणजे सृष्टिनिर्माता म्हणून मी तुझी व तुझ्या सृष्टीची पूजा म्हणजे सत्कार करतो. तुझ्या या सृष्टीमधे (पुजाः) मनुष्यांनी (अनुप्राणन्तु) पूर्ण आमचा उपयोग घ्यावा. तू कृपा करून (प्रजाः) आपल्या या जीवांवर अनुकूल होऊन (अनुप्राणिहि) त्यांना अनुग्रहीत कर. ॥25॥।
भावार्थ
भावार्थ - या मंत्रात श्लेषालंकार आहे. यात म्हटले आहे की सर्व मनुष्यांनी जगदुत्पादक, निराकार, सर्वव्यापी, सर्वशक्तिमान, सच्चिदानंद लक्षणयुक्त परमेश्वराची स्तुती व उपासना करावी. तसेच धार्मिक सभापती व धर्मनिष्ठ प्रजाजनांचाच सत्कार करावा. या व्यतिरिक्त अन्य कोणाचाही नको. विद्वज्जनांसाठी हेच उचित कर्त्तव्य आहे की त्यांनी प्रजाजनांना सुख प्राप्ती करिता परमेश्वराचीच स्तुती व उपासना करण्याचा उपदेश करावा आणि श्रेष्ठ सभापती आणि धार्मिक प्रजाजनांचाच सत्कार-आदर करावा की ज्यामुळे सर्व मनुष्य त्यांच्या आज्ञेप्रमाणे आचरण करतील. ज्याप्रमाणे सर्व जीवांना आपला प्राण प्रिय आहे, परमेश्वराविषयी देखील त्यांचा मनात तेवढेच प्रेम असावयास हवे ॥25॥
इंग्लिश (3)
Meaning
I adore God, the Creator of the Earth and Sky, the Source of all Knowledge, the Embodiment of Splendour, the Sustainer of all the beautiful planets, the Centre of love, the object of praise by the Vedas, and their Revealer. His lofty effulgent Self is divulged in the created world. He has fixed the bright sun and the moon in their conduct. He is the wisest Actor. His mercy grants us happiness. O God I worship Thee as Bestower of happiness on mankind. May all mortals enjoy life, through Thee. May Thou grant life to all human beings.
Meaning
For the love of the people I adore the lord of light, creator of earth and heaven and the middle regions of the skies, the eternal poet who composed this wonderful world of paradisal beauty and truth adorned with the jewels of life from His inexhaustible treasure of nature, lord so dear to the learned and the wise, the brilliant manifestation of whose existential form blazes in the heaven above and the earth below which He made. With His infinite mercy He created the regions of bliss for the people, the creatures He created and loved. The people adore you, lord, with their breath of life. Lord of the golden bough in both hands, bless the people with the breath and energy of life existential as well as eternal.
Translation
I worship that God who is the creator of heaven and earth, who is far-sighted in actions, who is of true impulsion, bestower of jewels, who is lovable in all respects, who is wise and sees the past and future as well as the present; whose form and brilliance glow high above in heaven. That goldenhanded Lord has measured the space with skilful imagination. (1) You for living creatures. (2) May the creatures live following you. May you inspire the creatures to follow you. (3)
Notes
Onyoh, द्यवापृथिव्व्यो:, of heaven and earth. Kavikretah, far-sighted in actions. Kavim, क्रांतदर्शिनम्, who sees past, present and future. Amimita, has measured. Prajah, living creatures.
बंगाली (1)
विषय
পুনরীশ্বররাজসভাপ্রজাগুণা উপদিশ্যন্তে ॥
পুনরায় পরবর্ত্তী মন্ত্রে ঈশ্বর, রাজসভা এবং প্রজাদের গুণের উপদেশ করা হইয়াছে ॥
पदार्थ
পদার্থঃ– (য়স্য) যে সচ্চিদানন্দাদিলক্ষণযুক্ত পরমেশ্বর, ধার্মিক সভাপতি ও প্রজাজনের (সবীমনি) উৎপন্ন সংসারে (ঊদ্ধর্বা) উত্তম (অমতিঃ) স্বরূপ (ভাঃ) প্রকাশমান (অদিদ্যুতৎ) প্রকাশিত হইয়াছে, যাহার (কৃপা) করুণা (স্বঃ) সুখ প্রদান করে (হিরণ্যপাণিঃ) যিনি সূর্য্যাদি জ্যোতি ব্যবহারে উত্তম গুণ কর্ম সকলকে যুক্ত করিয়াছেন (সুক্রতুঃ) যিনি উত্তম প্রজ্ঞা বা কর্মযুক্ত ঈশ্বর, সভাস্বামী ও প্রজাজন (স্বঃ) সূর্য্য ও সুখকে (অভিমীত) স্থাপিত করিয়াছেন (ত্বম্) সেই (ওণ্যোঃ) দ্যাবাপৃথিবী বা (সবিতারম্) অগ্নি ইত্যাদিকে উৎপন্ন ও সংপ্রয়োগ করিবার তথা (কবিক্রতুম্) সর্বজ্ঞ বা কবিক্রতু (রত্মধাম্) রমণীয় রত্নকে ধারণ করিবার (সত্যসবম্) সত্য ঐশ্বর্য্যযুক্ত (প্রিয়ম্) প্রীতিকারক (মতিম্) বেদাদি শাস্ত্র বা বিদ্বান্দিগের মানিবার যোগ্য (কবিম্) বেদ বিদ্যার উপদেশকারী তথা (দেবম্) সুখদাতা পরমেশ্বর, সভাধ্যক্ষ ও প্রজাজনের (অর্চামি) আমি পূজন করি বা যে (ত্বা) আপনাকে (প্রজাভ্যঃ) উৎপন্ন সৃষ্টি দ্বারা পূজিত করি । সেই আপনার সৃষ্টিতে (প্রজা) মনুষ্যাদি (অনুপ্রাণন্তু) আয়ুর ভোগ করে (ত্বম্) এবং আপনি কৃপা করিয়া (প্রজাঃ) প্রজার উপর জীবদিগের অনুকুল (অনুপ্রাণিহি) অনুগ্রহ করুন ॥ ২৫ ॥
भावार्थ
ভাবার্থঃ–এই মন্ত্রে শ্লেষালঙ্কার আছে । মনুষ্যদিগকে সকল জগৎ উৎপন্নকারী নিরাকার, সর্বব্যাপী, সর্বশক্তিমান, সচ্চিদানন্দাদি লক্ষণযুক্ত পরমেশ্বর, ধার্মিক সভাপতি এবং প্রজাজন সমূহেরই সৎকার করা উচিত । তদ্ভিন্ন অন্য কাহাকেও নহে । বিদ্বান্ মনুষ্যদিগের কর্ত্তব্য যে, প্রজা-পুরুষদিগের সুখ হেতু এই পরমেশ্বরের স্তুতি, প্রার্থনোপাসনা এবং শ্রেষ্ঠ সভাপতি তথা ধার্মিক প্রজাজনের সৎকারের উপদেশ নিত্য করিবে যাহাতে সকল মনুষ্য তাঁহার আজ্ঞানুকূল সর্বদা ব্যবহার করুক এবং যেমন প্রাণে সকল জীবের প্রতি প্রীতি থাকে সেইরূপ পূর্বোক্ত পরমেশ্বর প্রভৃতিতেও অত্যন্ত প্রেম করিবে ॥ ২৫ ॥
मन्त्र (बांग्ला)
অ॒ভি ত্যং দে॒বꣳ স॑বি॒তার॑মো॒ণ্যোঃ᳖ ক॒বিত্র॑ôতু॒মর্চা॑মি স॒ত্যস॑বꣳ রত্ন॒ধাম॒ভি প্রি॒য়ং ম॒তিং ক॒বিম্ । ঊ॒র্ধ্বা য়স্যা॒মতি॒র্ভাऽঅদি॑দ্যু॒ত॒ৎ সবী॑মনি॒ হির॑ণ্যপাণিরমিমীত সু॒ক্রতুঃ॑ কৃ॒পা স্বঃ॑ । প্র॒জাভ্য॑স্ত্বা প্র॒জাস্ত্বা॑ऽনু॒প্রাণ॑ন্তু প্র॒জাস্ত্বম॑নু॒প্রাণি॑হি ॥ ২৫ ॥
ऋषि | देवता | छन्द | स्वर
অভি ত্যমিত্যস্য বৎস ঋষিঃ । সবিতা দেবতা । পূর্বস্য ব্রাহ্মী জগতী ছন্দঃ । নিষাদঃ স্বরঃ ॥ সুক্রতুরিত্যুত্তরস্য ভুরিগার্ষী গায়ত্রী ছন্দঃ । ষড্জঃ স্বরঃ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal