यजुर्वेद - अध्याय 11/ मन्त्र 16
ऋषिः - शुनःशेप ऋषिः
देवता - अग्निर्देवता
छन्दः - भुरिक्पङ्क्तिः
स्वरः - पञ्चमः
12
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्यमङ्गिर॒स्वदाभ॑रा॒ग्निं पु॑री॒ष्यमङ्गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्यमङ्गिर॒स्वद्भ॑रिष्यामः॥१६॥
स्वर सहित पद पाठपृ॒थि॒व्याः। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। आ। भ॒र॒। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। अच्छ॑। इ॒मः॒। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। भ॒रि॒ष्या॒मः॒ ॥१६ ॥
स्वर रहित मन्त्र
पृथिव्याः सधस्थादग्निम्पुरीष्यमङ्गिरस्वदाभराग्निम्पुरीष्यमङ्गिरस्वदच्छेमोग्निम्पुरीष्यमङ्गिरस्वद्भरिष्यामः ॥
स्वर रहित पद पाठ
पृथिव्याः। सधस्थादिति सधऽस्थात्। अग्निम्। पुरीष्यम्। अङ्गिरस्वत्। आ। भर। अग्निम्। पुरीष्यम्। अङ्गिरस्वत्। अच्छ। इमः। अग्निम्। पुरीष्यम्। अङ्गिरस्वत्। भरिष्यामः॥१६॥
विषयः - मनुष्यैः कस्माद् विद्युत् स्वीकार्य्येत्याह॥
अन्वयः - हे विद्वन्! यथा वयं पृथिव्याः सधस्थादङ्गिरस्वत् पुरीष्यमग्निमच्छेमः। यथा चाऽङ्गिरस्वत् पुरीष्यमग्निं भरिष्यामस्तथा त्वमप्यङ्गिरस्वत् पुरीष्यमग्निमाभर॥१६॥
पदार्थः -
(पृथिव्याः) भूमेरन्तरिक्षस्य वा (सधस्थात्) सहस्थानात् (अग्निम्) भूमिस्थं विद्युतं वा (पुरीष्यम्) यः सुखं पृणाति स पुरीषस्तत्र साधुम् (अङ्गिरस्वत्) अङ्गिरसा सूर्येण तुल्यम् (आ) (भर) धर (अग्निम्) अन्तरिक्षे वाय्वादिस्थम् (पुरीष्यम्) (अङ्गिरस्वत्) (अच्छ) उत्तमरीत्या (इमः) प्राप्नुमः (अग्निम्) (पुरीष्यम्) (अङ्गिरस्वत्) (भरिष्यामः) धरिष्यामः। [अयं मन्त्रः शत॰६.३.२.९; ६.३.३.५ व्याख्यातः]॥१६॥
भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्यैर्विदुषामेवाऽनुकरणं कर्त्तव्यम्, नाऽविदुषाम्। सर्वदोत्साहेनाग्न्यादिपदार्थविद्यां गृहीत्वा सुखं वर्द्धनीयम्॥१६॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal