Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 33
    ऋषिः - भारद्वाज ऋषिः देवता - अग्निर्देवता छन्दः - निचृद्गायत्री स्वरः - षड्जः
    5

    तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्रऽई॑धे॒ऽअथ॑र्वणः। वृ॒त्र॒हणं॑ पुरन्द॒रम्॥३३॥

    स्वर सहित पद पाठ

    तम्। ऊ॒ इत्यूँ॑। त्वा॒। द॒ध्यङ्। ऋषिः॑। पु॒त्रः। ई॒धे॒। अथ॑र्वणः। वृ॒त्र॒हण॑म्। वृ॒त्र॒हन॒मिति॑ वृत्र॒ऽहन॑म्। पु॒र॒न्द॒रमिति॑ पुरम्ऽद॒रम् ॥३३ ॥


    स्वर रहित मन्त्र

    तमु त्वा दध्यङ्ङृषिः पुत्र ईधेऽअथर्वणः । वृत्रहणम्पुरंदरम् ॥


    स्वर रहित पद पाठ

    तम्। ऊ इत्यूँ। त्वा। दध्यङ्। ऋषिः। पुत्रः। ईधे। अथर्वणः। वृत्रहणम्। वृत्रहनमिति वृत्रऽहनम्। पुरन्दरमिति पुरम्ऽदरम्॥३३॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 33
    Acknowledgment

    अन्वयः - हे राजन्! यथाऽथवर्णः पुत्रो दध्यङ्ङृषिरु सकलविद्याविद् वृत्रहणं पुरन्दरमीधे, तथा तं त्वा सर्वे विद्वांसो विद्याविनयाभ्यां वर्द्धयन्तु॥३३॥

    पदार्थः -
    (तम्) (उ) वितर्के (त्वा) त्वाम् (दध्यङ्) यो दधीन् सुखधारकानग्न्यादिपदार्थानञ्चति सः (ऋषिः) वेदार्थवित् (पुत्रः) पवित्रः शिष्यः (ईधे) प्रदीपयेत्। अत्र लोपस्त आत्मनेपदेषु [अष्टा॰७.१.४१] इति तकारलोपः। (अथर्वणः) अहिंसकस्य विदुषः (वृत्रहणम्) यथा सूर्य्यो वृत्रं हन्ति तथा शत्रुहन्तारम् (पुरन्दरम्) यः शत्रूणां पुराणि दृणाति तम्। [अयं मन्त्रः शत॰६.४.२.३ व्याख्यातः]॥३३॥

    भावार्थः - ये याश्च साङ्गोपाङ्गान् वेदानधीत्य विद्वांसो विदुष्यश्च भवेयुस्ते ताश्च राजपुत्रादीन् राजकन्यादींश्च विदुषो विदुषींश्च संपाद्य ताभिर्धर्मेण राजप्रजाव्यवहारान् कारयेयुः॥३३॥

    इस भाष्य को एडिट करें
    Top